SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः प्रकृत्युदी रणा ॥२॥ रासिंपि'त्ति-दसुत्तरस्स उत्तरपगतिसतस्स सादितअधुवा एव उदीरणा । कहं ? भण्णइ-अधुवोदयत्तातो। कयरं दसुत्तरं पगतिसतं ? भण्णइ-पंचणाणावरणा चत्तारि सणावरण मिच्छत्तं तेजतिगसत्तगं वण्णातिवीस अगुरु- लहुगं थिराथिरसुभासुभा णिमेण पंचअंतरातिगाए ततो अडयालीसं मोत्तूणं सेसं दसुत्तरं पगतिसतं ॥२॥ ___ (मलय०)-तदेवमुक्तौ लक्षणभेदौ । सम्प्रति साधनादिप्ररूपणा कर्त्तव्या। सा च द्विधा-मूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयामाह-'मूलपगईसुत्ति । मूलप्रकृतिषु मध्ये पश्चानां मूलप्रकृतीनां ज्ञानावरणदर्शनावरणनामगोत्रान्तराय| रूपाणामुदीरणा 'त्रिधा'-त्रिप्रकारा, तद्यथा-अनादिधुंवाऽध्रुवा च । तथाहि-ज्ञानावरणदर्शनावरणान्तरायाणां यावत् क्षीणमोहगुणस्थान कस्य समयाधिकावलिकाशेषो न भवति तावत्सर्वजीवानामुदीरणाऽवश्यंभाविनी। नामगोत्रयोस्तु यावत्सयोगिचरमसमयस्तावत् । तत एषा| मनादिरुदीरणा, ध्रुवाऽभव्यानां, अधुवा भव्यानाम् । तथा द्वयोर्वेदनीयमोहनीययोरुदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्बुवाऽध्रुवा | च । तत्र वेदनीयस्य प्रमत्तगुणस्थानकं यावदुदीरणा, न परतः । मोहनीयस्य सूक्ष्मसंपरायगुणस्थानकं यावत् न परतः । ततोऽप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्योदीरणा सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत् । आयुषः पुनरुदीरणा सादिरध्रुवा च । तथाहि-आयुषः पर्यन्तावलिकायां नियमादुदीरणा न भवति ततोऽधुवा, पुनरपि परभवोत्पत्तिप्रथमसमये प्रवर्तते ततः सादिरिति । तदेवं कृता मूलप्रकृतिषु साधनादिप्ररूपणा । सम्पत्युत्तरप्रकृतिषु तां चिकीर्षुराह-'दसुत्तरसउत्तरासिं पि,' सादिरध्रुवा चेत्यनुवर्तते । उत्तरासामपि उत्तरप्रकृतीनामपि-दशोत्तरशतसंख्यानां, पञ्चविधज्ञानावरणदर्शनावरणचतुष्टयमिथ्यात्वतैजससप्तकवर्गादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणान्तरायपञ्चकरूपाष्टाचत्वारिंशद्वर्जानां सर्वशे ॥ २ ॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy