SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ तीनामुदीरकः सोऽतिसंक्लिष्टभावोऽतिसंक्लिष्टपरिणामः क्षपितकमांशः सर्वप्रकृतीनां स्वस्वयोग्यानां जघन्यप्रदेशोदीरणास्वामी वेदित| व्यः । तत्रावधिज्ञानावरणवर्जानां चतुर्णां ज्ञानावरणीयानां अवधिदर्शनावरणवर्जानां त्रयाणां दर्शनावरणीयानां सातासात वेदनीययोः, मिथ्यात्वस्य, षोडशानां कषायाणां, नवानां नोकपायाणां, सर्वसंख्यया पञ्चत्रिंशत्संख्यानां प्रकृतीनां मिथ्यादृष्टिः सर्वसंक्लिष्टो, निद्रापञ्चकस्य तत्प्रायोग्यसंक्लेशयुक्तो जघन्य प्रदेशोदीरणास्वामी । तथा योऽनन्तरसमये मिध्यात्वं यास्यति सोऽतिसंक्लिष्टः सम्यक्त्वसम्यमिथ्यात्वयोर्जघन्य प्रदेशोदीरणास्वामी भवति । तथा गतिचतुष्टयपञ्चेन्द्रियजात्यौदारिकसप्तकवैक्रिय सप्त कतैजस सप्तकसंस्थानपट्कसंहन| नषट्कवर्णादिविंशतिपराघातोपघातागुरुलघुच्छ्वासोद्योतविहायोगतिद्विकत्र सबादरपर्याप्तप्रत्येकस्थिरास्थिर शुभाशुभसुभगदुर्भगसुस्वरदुःस्वरादेयानादेय यशः कीर्त्ययशः कीर्तिनिर्माणोच्चैर्गोत्रनीचैर्गोत्रपञ्चविधान्तरायरूपाणामेकोननवतिसंख्यानां प्रकृतीनां संज्ञी पर्याप्तः सर्वोत्क ष्टसंक्लेशयुक्तो जघन्य प्रदेशोदीरणास्वामी । आहारकसप्तकस्य चाहारकशरीरी तत्प्रायोग्यसंक्लेशयुक्तः, आनुपूर्वीणामपि तत्प्रायोग्यसंक्लेशयुक्तः, आतपस्य खरबादरपृथ्वीकायिकः सर्वसंक्लिष्टः, एकेन्द्रियजातिस्थावर साधारणनाम्नामेकेन्द्रियः सर्वोत्कृष्टसंक्लेशयुक्तः, सूक्ष्मनाम्नः सूक्ष्मैकेन्द्रियः सर्वसंक्लिष्टो जघन्य प्रदेशोदीरणास्वामी । अपर्याप्त कनाम्नः पुनरपर्याप्त मनुष्यः सर्वसंक्लिष्टश्वरम समये वर्तमानो जघन्यप्रदेशोदीरको भवति । तथा द्वित्रिचतुरिन्द्रियजातीनां यथाक्रमं द्वित्रिचतुरिन्द्रियाः सर्वसंक्लिष्टा जघन्य प्रदेशोदीरणास्वामिनः । 'अणुभागुत्तो यतित्थयरे' त्ति - तीर्थकरनाम्नो य एव जघन्यानुभागोदीरणास्वामी प्राक् प्रतिपादितः स एव जघन्य प्रदेशोदीरणास्वामी अपि वेदितव्यः, तीर्थकरकेवली यावन्नायोजिकाकरणमारभते तावत्तीर्थकरनाम्नो जघन्य प्रदेशोदीरको वेदितव्य इत्यर्थः ॥ ८८ ॥ (उ०)—तदेवमुक्तमुत्कृष्टप्रदेशोदीरणास्वामित्वं, अथ जघन्य प्रदेशोदीरणास्वामित्वमाह - तत्तत्प्रकृत्युद्दीरकोऽतिसंक्लिष्टभावः क्षपित
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy