SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ऽनुभागोदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्बुवाऽधुवा च । तथाहि-अनयोरुत्कृष्टानुभागोदीरगा आहारकशरीरस्थस्य संयतस्य | भवति । सा च सादिरधुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि चाहारकशरीरमुपसंहरतः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवे पूर्ववत् । तथा त्रयाणां मिथ्यात्वगुरुकर्कशानामजघन्यानुभागोदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्धवाऽध्रुवा च। तत्र सम्यक्त्वं संयमं च युगपत्प्रतिपत्तुकामस्य जन्तोमिथ्यात्वस्य जघन्यानुभागोदीरणा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या । सा च सम्यक्त्वात्प्रतिपततः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत् । कर्कशगुरुस्पर्शयोजघन्यानुभागोदीरणा केवलिसमुद्घातान्निवर्तमानस्य षष्ठसमये भवति । सा च सादिरधुवा च, समयमात्रत्वात् । ततोऽन्या सर्वाप्यजघन्या । सापि केवलिसमुद्घातानिवर्तमानस्य सप्तमसमये भवन्ती सादिः ध्रुवाधुवे पूर्ववत् । तथा तैजससप्तकमृदुलघुवर्जशुभवर्गाघेकादशकागुरुलघुस्थिरशुभनिर्माणनाम्नां विंशतिप्रकृतीनामनुत्कृष्टानुभागोदीरणा त्रिधा । तद्यथा-अनादिर्बुवाऽध्रुवा च । तथाहि-एतासामुत्कृष्टानु| भागोदीरणा सयोगिकेवलिचरमसमये । ततोऽन्या सर्वाप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे पूर्ववत् । तथा पञ्चविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणकृष्णनीलदुरभिगन्धतिक्तकदुरूक्षशीतास्थिराशुभपश्चविधान्तरायरूपाणां त्रयोविंशतिप्रकृतीनामजघन्यानुभागोदीरणा त्रिधा । तद्यथा-अनादिर्धवाऽधुवा च । तथाहि-एतासां वस्त्रोदीरणापर्यवसाने जघन्यानुभागोदीरणा। सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या। सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे पूर्ववत् । 'एयासि'इत्यादि । एतासां पूर्वोक्तानां प्रकृतीनां शेषविकल्पा-उक्तव्यतिरिक्ता विकल्पाः मृदुलघुविंशतीनां जघन्याजघन्योत्कृष्टाः, मिथ्यात्वगुरुकर्कशत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टजयन्याः सादयोऽधुवाश्च भवन्ति । तथाहि-मृदुलघुविंशतीनां जघन्याऽजघन्या चानुभागोदीरणा मिथ्यादृष्टौ पर्यापण लभ्यते ।
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy