SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ नेतुं शक्यते । उक्तं च 'सुठु वि मेहसमुदए होइ पहा चंदसूराणं' ति, तथाऽत्रापि भावनीयम् ॥४८॥ (उ०)-अथ विपाके विशेषमाह-वीर्यान्तरायकेवलदर्शनावरणाष्टाविंशतिविधमोहनीयपश्चविधज्ञानावरणानां सर्वसंख्यया पश्चत्रिंशत्पकृतीनामसमस्तपर्यायेषु सर्वद्रव्येषु-सर्वजीवद्रव्येषु विपाकः । तथाहि इमा वीर्यान्तरायाद्याः पञ्चत्रिंशत्प्रकृतयः सकलमपि जीवद्रव्यमुपघ्नन्ति पर्यायांस्तु न सर्वानपि, यथा मेधैः सर्वात्मनाऽऽच्छादितयोरपि सूर्याचन्द्रमसोस्तत्प्रभा सर्वथा नापनेतुं शक्यते तथैताभिः सर्वात्मनाऽऽवृतेऽपि जीवद्रव्ये तत्पर्यायाः सर्वथा नापनेतुं शक्यन्त इति भावनीयम् ॥४८॥ गुरुलघुगाणंतपएसिएसु चक्खुस्स रूविदव्वेसु । ओहिस्स गहणधारणजोग्गे सेसंतरायाणं ॥४९॥ (चू०)-गुरुलहुगाणंतपदेसिकेसुत्ति। चक्खुस्स जे गुरुलहुया अणंतपदेसिया खंधा तेसु चक्खुदंसणस्स विवागो, न सेसेसुदब्वेसु ।'रूविदव्वेसु ओहिस्स'त्ति-सव्वरूविदव्वेसु ओहिदसणस्स विवागोण सव्वदव्वेसु।। 'गहणधारणजोग्गे सेसंतरायाणं' जे गहणधारणजोग्गा पोग्गलहव्वा तेसु दाणलाभभोगपरिभोगांतराइयाणं विवागो, ण सेसदब्वेसु । अवसेसाणं कम्माणं जहा बंधसतगे तहा चेव । विवाग विसेसो भणिओ ॥४९॥ (मलय०)-'चक्षुष'-चक्षुर्दर्शनावरणस्य ये गुरुलघुका अनन्तप्रादेशिकाः स्कन्धास्तेषु विपाकः। अवधिदर्शनावरणस्य रूपिद्रव्येषु । शेषान्तरायाणां दानलाभभोगोपभोगान्तरायाणां ग्रहणधारणयोग्येषु पुद्गलद्रव्येषु विपाको न शेषेषु । यावत्येव हि विषये चक्षुर्दर्शनादीनि व्याप्रियन्ते तावत्येव विषये चक्षुर्दर्शनावरणादीन्यपि । तत उक्तरूपो विषयनियमो न विरुध्येत । शेषप्रकृतीनां तु यथा प्राक् विपाकोभिहितः पुद्गलविपाकादिस्तथैवावगन्तव्यः॥४९॥ .. स
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy