________________
FDGEDDDDDED
स्थानके वावगन्तव्यौ । एवमचक्षुश्चक्षुर्दर्शनावरणे च । बन्धं प्रतीत्य पुनः स्त्रीवेदश्चतुःस्थानके त्रिस्थानके द्विस्थानके वा । पुरुषवेदोऽचक्षुर्दर्शनावरणचक्षुर्दर्शनावरणे च चतुष्प्रकारेऽपि, तद्यथा-चतुःस्थानके त्रिस्थानके द्विस्थानके एकस्थानके च । ननु 'देसघाई अचक्खू यत्ति मागेवोक्तं तत्किमर्थं पुनरिहाचक्षुर्दर्शनावरणोपादानम् ? उच्यते-स्थाननियमार्थम् । पूर्व हि देशघातित्वमेवाचक्षुर्दर्शनावरणस्योक्तम् , अत्र तु रसस्थाननियमः। 'जस्स'इत्यादि-यस्य जीवस्यैकमप्यक्षरं सर्वपर्यायैः परिज्ञातं वर्तते तस्य श्रुतकेवलिनो मतिश्रुतावधिज्ञानावरणावधिदर्शनावरणप्रकृतीनामनुभागोदीरणायामकस्थानको रसः प्राप्यते । संज्वलनानां तु बन्धेऽनुभागोदीरणायां च चतुष्प्रकारोऽपि रसः, तद्यथा-चतु:स्थानकत्रिस्थानको द्विस्थानक एकस्थानकश्च ॥ ४६॥
(उ०)-वेदौ-स्त्रीवेदपुरुषवेदावनुभागोदीरणामुत्कृष्टामधिकृत्य द्विस्थानकेऽनुत्कृष्टां त्वधिकृत्य द्विस्थानके एकस्थानके वाऽवगन्तव्यौ। एवमचक्षुर्दर्शनावरणं चक्षुर्दर्शनावरणं च । बन्धं प्रतीत्य पुनः स्त्रीवेदश्चतुःस्थानके त्रिस्थानके द्विस्थानके च । पुरुषवेदोऽचक्षुर्दर्शनावरणं चक्षुर्दर्शनावरणं चैकद्वित्रिचतुःस्थानकभेदेन चतुष्प्रकारेऽपि । ननु 'देसघाई अचक्खू यत्ति प्रागेवोक्तमिति किमर्थ पुनरिहाचक्षुर्दर्शनावरणमुपात्तम् ? उच्यते-सदृशप्रकृत्यधिकारादिह संपातायातमेतत् , घातिसंज्ञानियमाथं प्रागभिधानमिह तु रसस्थाननियमार्थमिति तु मलयगिरिचरणाः । यस्य जीवस्यैकमप्यक्षरं सर्वपर्यायैः परिज्ञातं वर्तते तस्य संपूर्णश्रुताक्षरस्य श्रुतकेवलिनो मतिश्रुतावधिज्ञानावरणावधिदर्शनावरणप्रकृतीनामनुभागोदीरणायामकस्थानको रसः प्राप्यते, संज्वलनानां तु बन्धेऽनुभागोदीरणायां चैकद्वित्रिचतुष्प्रकारोऽपि रसः प्राप्यते ॥४६॥ | मणनाणं सेससमं मीसगसम्मत्तमवि य पावेसु । छट्ठाणवडियहीणा संतुक्कस्सा उदीरणया ॥४७॥
ADDDDDDROIDSONAGAR