________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्। त्रिसप्तिपदानां फलनिरूपणम्।
॥३३३॥
नुग्रहाय उपात्तानि, भेदो वा सूक्ष्मधियाऽभ्यूह्यः । द्वितीयां सुखशय्यामुपसम्पद्य विहरति एवंविधरूपत्वात् तस्याः ॥३३॥ उपधेः-उपकरणस्य रजोहरणमुखवत्रिकाव्यतिरिक्तस्य प्रत्याख्यानं उपधिप्रत्याख्यानं तेन परिमन्थ:-स्वाध्यायादिक्षतिस्तद्भावोऽपरिमन्थस्तं जनयति, तथा निरुपधिको जीवः 'निःकाङ्कः' वस्त्राद्यभिलाषरहितः उपधिमन्तरेण चस्य भिन्नक्रमत्वात् 'न सकिश्यति' न च क्लेशमाप्नोति । उक्तं हि-"तस्स णं भिक्खुस्स नो एवं भवति-परिजुन्ने मे वत्थे सूई जाइ|स्सामि संधिस्सामि उकंसिस्सामि तुण्णिस्सामि वोक्कसिस्सामि" इत्यादि ॥३४॥ आहारप्रत्याख्यानेन जीविते आशंसाअभिलाषो जीविताशंसा तस्याः प्रयोगः-करणं जीविताशंसाप्रयोगः तं व्यवच्छिनत्ति, आहाराधीनत्वात् जीवितस्य । आहारमन्तरेण न सक्लिश्यति, कोऽर्थः ? विकृष्टतपोऽनुष्ठानेऽपि न बाधामनुभवति ॥३५॥ 'कषायप्रत्याख्यानेन' क्रोधा| दिविनिवारणेन वीतरागभावं जनयति, द्वेषाभावोपलक्षणमेतत् ॥ ३६ ॥ 'योगप्रत्याख्यानेन' तन्निरोधलक्षणेन ॥ ३७॥ शरीरम्-औदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणा न कृष्णा न नीला इत्यादयो यस्य स सिद्धातिशयगुणस्तद्भावस्तत्त्वम् ॥ ३८॥ सहायाः-साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन-तथाविधयोग्यताभाविनाऽभिग्रहविशेष रूपेण 'एकीभावम्' एकत्वम् 'एकीभावभूतश्च' एकत्वप्राप्तश्च 'ऐकाग्र्यम्' एकालम्बनत्वं भावयन्' अभ्यस्यन् अल्पझब्झः अवाकलहः अल्पकषायः "अप्पतुमंतुमे" त्ति अल्पम्-अविद्यमानं त्वं त्वमिति-स्वल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान् त्वमेवं सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य स तथा, संयमबहुलः संवरबहुलः प्राग्वत्, अत एव 'समाहितः' ज्ञानादिसमाधिमांश्चापि भवति ॥ ३९ ॥ भक्तप्रत्याख्यानेन' भक्तपरिज्ञादिना ॥४०॥ सद्भावेन-सर्वथा पुन:करणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीति यावत् तेन, 'अनिवृत्ति' शुक्लध्यानचतुर्थ
"तख भिक्षोनैवं भवति–परिजीण मे वस्त्रं सूचिं याचयिष्यामि सन्धास्ये उत्कर्षयिष्यामि तूणयिष्यामि व्युत्कर्षयिष्यामि"
॥३३३॥