________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
उग्गमुप्पायणं पढमे, बीए सोहिज एसणं । परिभोगम्मि चउक्कं, विसोहिज्ज जयं जई ॥ १२ ॥ व्याख्या—गवेषणायां ग्रहणे च उभयत्र एपणेति सम्बध्यते, ततो गवेषणायामेषणा ग्रहणे चैषणा परिभोगेपणा च या “ आहारोवहिसेजाए" त्ति वचनव्यत्ययाद् आहारोपधिशय्यासु “एए तिन्नि" त्ति एताः ' एषणाः तिस्रः 'विशोधयेत्' निर्दोषा विदध्यात् ॥ कथं विशोधयेत् ? इत्याह – “उग्गमुप्पायणं" ति सूचनात् सूत्रमिति उद्गमोत्पादनासुखबोधा- दोषान् "पढमे" त्ति 'प्रथमायां' गवेषणैषणायां, “बीए” त्ति 'द्वितीयायां ग्रहणैषणायां शोधयेत् “एषणं" ति एषणादोषान्, “परिभोगम्मि" त्ति परिभोगैषणायां 'चतुष्कं संयोजनाऽप्रमाणाऽङ्गारधूमकारणात्मकम् अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् विशोधयेत् " जयं" ति यतमानो यतिः । पुनः क्रियाभिधानमतिशयख्यापनार्थमिति सूत्रद्वयार्थः ॥ ११-१२ ॥ चतुर्थसमितिमाह्—
ओहोव होवग्ग हियं, भंडयं दुविहं मुणी । गिण्हंतो निक्खिवंतो य, पउंजिज्ज इमं विहिं ॥ १३ ॥ चक्खुसा पडिलेहित्ता, पमज्जिज्ज जयं जई । आदिए निक्खिविज्जा वा, दुहओ वि समिए सया ॥ १४॥ व्याख्या – “ओहोवहोवग्गहियं" ति उपधिशब्दो मध्यनिर्दिष्टत्वाद् उभयत्र सम्बध्यते, तत ओघोपधिमौपग्रहिकोपधिं च 'भाण्डकम् ' उपकरणं रजोहरणदण्डकादि 'द्विविधम्' उक्तभेदतो द्विभेदं मुनिर्गृह्णन् निक्षिपंश्च प्रयुञ्जीत इमं विधिम् ॥ तमेवाह - चक्षुषा प्रत्युपेक्ष्य प्रमार्जयेद् रजोहरणादिना यतमानो यतिः, तत आददीत निक्षिपेद् वा "दुहओ वित्ति द्वावपि प्रक्रमाद् औधिक पग्रहिकोपधी 'समितः' उपयुक्तः सदेति सूत्रद्वयार्थः ॥ १३-१४ ॥ पञ्चमसमितिमाह — उच्चारं पासवणं, खेलं सिंघाण जल्लियं । आहारं उवहिं देहं अन्नं वा वि तहाविहं ॥ १५ ॥ अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चैव संलोए ॥ १६ ॥
ख्या लघुवृत्तिः ।
॥ ३०३ ॥
DOXXX
FOXCXCXXXX
10X8XXX
चतुर्विंशं
प्रवचनमा
त्राख्यमध्ययनम् ।
समिति
स्वरूपम् ।
|॥३०३॥