________________
श्रीउत्तरा
ध्ययन सूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः । ॥ २१९ ॥
XOXOXOX -
कयरे खलु ते थेरेहिं भगवंतेहिं दस वंभचेरसमाहिठाणा पन्नत्ता ? जे भिक्खू सोच्चा णिसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिंदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा । इमे खलु ते धेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिंदिए गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा, तंजहा - विवित्ताइं सयणासणारं सेविज्जा से निग्गंथे, नो इत्थी पसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे । तं कहं ? इति चेद् आचार्य आह- निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जेज्जा, भेदं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, केवलिपन्नत्ताओ धम्माओ वा भंसिजा, तम्हा नो इत्थिपसुपंडगसंसत्ताइं सयणासणाई सेवित्ता हवइ से निग्गंथे ॥ १ ॥ कतराणीत्यादि प्रश्नसूत्रम्, इमानीत्यादि निर्वचनसूत्रं प्राग्वत् । तान्येवाह – 'तद्यथे' त्युपन्यासे, 'विविक्तानि ' स्त्रीपशुपण्डकैरनाकीर्णानि शयनासनानि उपलक्षणत्वात् स्थानानि च सेवेत यः स निर्मन्थो भवतीति शेषः । इत्थमन्वयेनाऽभिधायाव्युत्पन्नविनेयानुग्रहायामुमेवार्थं व्यतिरेकत आह— 'नो' नैव स्त्रीपशुपण्ड क संसक्तानि शयनासनानि 'सेविता' उपभोक्ता भवति । 'तदि' ति अनन्तरोक्तं 'कथं' केन प्रकारेण ? ' इति चेद्' एवं यदि मन्यसे अत्रोच्यते - निर्ग्रन्थस्य खलु निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य " बंभयारिस्स” त्ति अपेर्गम्यमानत्वाद् ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये 'शङ्का वा' इहान्येषामिति गम्यते, ततः शङ्का वाऽन्येषां किमेवंविधशयनास
षोडशं ब्रह्मचर्य -
समाधि
नामकमध्ययनम् ।
दश ब्रह्मचर्य समाधिस्थानानि ।
॥ २१९ ॥