________________
पञ्चनिर्ग्रन्थवक्तव्यता।
कर्तव्यः ? इत्याह-पक्षीव पक्षी, "पत्त" त्ति पात्रं' पतगृहादिभाजनम् उपलक्षणत्वात् शेषोपकरणं च, 'समादाय' all गृहीत्वा परिब्रजेदिति सम्बन्धः । यथा पक्षी पक्षसञ्चयं गृहीत्वा गच्छति एवमसावपि इत्यर्थः, 'निरपेक्षः' निरभिलाषः
तथा च प्रतिदिनं संयमपलिमन्थमीरुतया पात्रादिसन्निधिकरणे न दोष इति सूत्रार्थः ॥ १६ ॥ यदुक्तं निरपेक्षः परिव्रजेदिति तद् अभिव्यक्तीकर्तुमाह
एसणासमिए लज्, गामे अणियओ चरे । अप्पमत्तो पमत्तेहिं, पिंडपायं गवेसए ॥१७॥ व्याख्या-एषणायाम्-उत्पादनमहणप्रासविषयायां समितः-उपयुक्तः एषणासमितः, अनेन निरपेक्षत्वमुक्तम् । "लजु" ति लज्जा-संयमस्तद्वान् प्रामे उपलक्षणत्वाद् नगरादौ च 'अनियतः' अनियतवृत्तिः 'चरेत्' विहरेत्, अनेनापि निरपेक्षता एवोका । चरंच किं कुर्यात् ? इत्याह-अप्रमत्तः 'प्रमत्तेभ्यः' गृहस्थेभ्यः, ते हि विषयादिप्रमादसेवनात् प्रमत्ता उच्यन्ते, "पिण्डपातं' भिक्षा गवेषयेदिति सूत्रार्थः॥ १७ ॥ इत्थं प्रसक्तानुप्रसक्त्या संयमस्वरूपमुक्तम, तदक्तो च निर्मन्थस्वरूपम् , सम्प्रत्यत्रैवाऽऽदरोत्पादनार्थमाह
एवं से उदाहु अणुत्तरनाणी, अणुत्तरदसी अणुत्तरनाणदंसणधरे। अरहा नायपुत्ते भगवं, वेसालीए वियाहिए ॥१८॥ त्ति बेमि॥
_ अमना प्रकारेण "से" इति 'सः' भगवान् “उदाहु" त्ति उदाहृतवान् । 'अनुत्तरज्ञानी' सर्वोत्कष्टज्ञानवान्, गौरखवद् मत्वर्थीयः, अन्यथा बहुव्रीहिरेव स्यादत्र । तथा अनुत्तरं-सर्वोत्कृष्टं पश्यतीत्यनत्तरदर्शी. सामान्यविशेषमाहितया च दर्शनज्ञानयोर्भदः। यत उक्तम्-"जं सामन्नग्गहणं, दंसणमेयं विसेसियं नाणं, ति।
. पतन्तं वायत इति पत्रं पक्षसञ्चयः। २ “यत्सामान्यग्रहणं दर्शनमेतत् विशेषितं ज्ञानम्।"
उ.अ०२०