SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्री तिलकाचार्यलघुवृत्तिः १०९२ नमुक्कारपोरसीए, पुरिमढिक्कासणेगठाणे य । आयंबिलभत्तट्टे, चरिमे य अभिग्गहे विगई । । १५९६ ।। दो छ सत्त अट्ठ य, सत्तट्ठ य पंच छ पाणंमि । चड पंच अट्ठ नवए, पत्तेयं पिंडओ नव । । १५९७ ।। स्पष्टे । नवरं प्रत्येकं पिण्डको नवकः नव (९) सहितः को (१) व्यञ्जनादिवर्णो नवकः (९१) अङ्कानामुत्क्रमलेख्यत्वादनेनैकोनविंशतिर्लभ्यते (१९) ते च प्रस्तावादत्राकाराः । स नवको विद्यते यत्र पिण्डके अभ्रादित्वादवि नवकः, एकोनविंशत्याकारवान्, एकोनविंशत्या कारसम्बन्धी पिण्डक इत्यर्थः एकोनविंशतिः कथं ? एकासनगता अष्टावाकाराः । विकृतिप्रत्याख्यानाच्चाधिकाश्चत्वारः पौरुषी प्रत्याख्यानाञ्च त्रयः । एकश्चोलपट्टाकारः । पानाश्रिताः षडुक्ता अपि अलेपेनैव लेपकृतेनापि, अच्छेनैव बहलेनापि, असित्थेनैव ससित्थेनापि न भङ्ग इति त्रय एवाकाराः । त्रयश्चोपमानभूतत्वेन गताः । सर्वेऽपि मैलिताः, उक्तसङ्ख्याः । पिण्डक इति जात्या एकवचनम् । ततश्च प्रत्येकं दशानामपि प्रत्याख्यानानां द्विषट्सप्तादिकः पिण्डकः समूह इत्यर्थः । 'पिंडए नवए' इति पाठे तु काकु व्याख्या प्रत्येकं दशानामपि प्रत्याख्यानानां द्विषट्सप्तादिकान् आकाराणां पिण्डकान् न वदेत् (न वए) ? अपि तु वदेदित्यर्थः । सञ्चूर्णयामि गदया न सुयोधनोरुः ? अपि चूर्णयामीतिवत् । । १५९६- १५९७ ।। व्यक्तिमाह - ************** १. 'मिलिताः ' प । •को 'क' व्यञ्जनानामादिवर्णत्वात् 'क' शब्देन एकः (१) सूचितः, नव सहितः कः नव (९) कः (१) ९९ अङ्कानामुत्क्रमेण लेख्यत्वाद् (१९) । * अलेपेनैव सदृशेन लेपकतेनापि न भङ्गः एवं 'अच्छेनेव' सदृशेन बहलेनापि भङ्गः एवं असित्थेनैव सदृशेन ससित्थेनापि न भङ्गः । आ.नि. प्रत्याख्यानाध्ययनम् भावप्रत्याख्यानम् सूत्रव्याख्या आकारार्थः । * गाथा - १५९६ १५९७ १०९२ [५८८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy