________________
आवश्यक
।। प्रतिक्रमणाध्ययनम् ।।
निर्युक्तिः व्याख्यातं वन्दनाऽध्ययनम् । सम्प्रति प्रतिक्रमणाध्ययनमारभ्यते । अस्य चायं सम्बन्धः - पूर्वाध्ययनेऽर्हदुपदिष्टसामायिककतॄणां श्रीतिलकाचार्य- * वन्दनकमुक्तम्, अत्र च तेषामेवाती - चारशुद्धयर्थं प्रतिक्रमणं वक्ष्यते । प्रतीपं क्रमणं प्रमादवशात् अशुभयोगं गतस्य पुनः स्वस्थानप्राप्तिः लघुवृत्तिः
प्रतिक्रमणम् । उक्तं च स्वस्थानाद्यत्परस्थानं प्रमादस्यवशाद्गतः तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते । तत्र नियुक्तिकृदाह -
पंडिकमणं पंडिकमओ, पडिकमियव्वं च आणुपुवीए । तीए य पडुपन्ने, अणागए चेव कालंमि । । १२३२ ।। प्रतिक्रमणं निरूपितशब्दार्थम्, प्रतिक्रामतीति प्रतिक्रमकः, प्रतिक्रमितव्यमशुभयोगरूपं कर्म । आनुपूर्व्या परिपाट्या, अतीते, प्रत्युत्पन्ने, अनागते चैव काले । आह कथं कालत्रये प्रतिक्रमणार्थयोगः ? प्रतिक्रमणशब्दो ह्यत्राऽशुभयोगनिवृत्तिमात्रार्थः । ततश्चातीतविषयं प्रतिक्रमणं निन्दाद्वारेण, प्रत्युत्पन्नविषयं संवरद्वारेण, अनागतविषयं प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरिति युज्यत एव प्रतिक्रमणार्थो न दोषः । ।१२३२ ।। प्रतिक्रमकस्वरूपमाह -
७३७
******
जीवो उ पडिक्कमओ, असुभाणं पावकम्मजोगाणं । झाणपसत्था जोगा, जे ते न पडिक्कमे साहू ।। १२३३ ।। जीवः प्रतिक्रमको शुभानां पापकर्मयोगानाम् । ध्यानं च मानसम्, प्रशस्तयोगौ वचः कायरूपौ ध्यानप्रशस्तयोगाः ये, तेभ्यो न प्रतिक्रमेत, तेषु न प्रतीपं वर्त्तेत साधुः । अपि तु तान् सेवेत । उक्तः प्रतिक्रमकः ।।१२३३ ।। प्रतिक्रमणस्य शब्दार्थपर्यायैर्व्याख्यामाह -
१. पडिक लल.प.प
******
आ.नि. प्रतिक्रमणा
ध्ययनम् प्रतिक्रमकस्वरूपः । गाथा - १२३२१२३३
७३७
[२३३]