________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
७१६
*****
जाहेवि य परितंता, गामागरनगरपट्टणमडंता । तो केइ नीइवासी, संगमथेरं ववइसंति । । ११७७ ।। 'जाहेविय' यदापि च । शेषं स्पष्टम् ।। ११७७ ।। कथं नित्यवासालम्बनतया व्यपदिशन्तीत्याह -
संगमथेरायरिओ, सुड्डु तवस्सी तहेव गीयत्थो । पेहित्ता गुणदोसं, नीयावासं पवत्तो य । ।११७८ ।।
स्पष्टा ।। ११७८ ।। कः पुन सङ्गमस्थविर इत्यत्र कथा -
इहासन् कोल्लाकपुरे, निर्मलश्रुतसंपदः । सङ्गमस्थविराचार्यास्तैर्दुर्भिक्षे स्वसाधवः | १ | निवेश्याचार्य प्रेष्यन्त, देशे दुर्भिक्षवर्जिते । जङ्घाबलपरिक्षीणाः, स्थितास्तत्रैव च स्वयम् । २ । विधाय नवधा क्षेत्र, नवकल्पविहारिणः । चिराद्दत्ताभिधः शिष्यस्तेषां शुद्ध्यर्थमायया ॥३॥
नित्यवासी गुरुरिति सोऽविशन्न तदाश्रये । स्थित्वा कुट्यां बहिः पूज्यान्, नत्वा वार्त्ता व्यधत्त सः ॥ ४ ॥ भ्राम्यन् भिक्षां सहाचार्यैः, चिक्लेश प्रान्तलाभतः । न तत्कुलं दर्शयति लभ्यते यत्र किञ्चन ॥ ५ ॥ गुरुर्ज्ञात्वा तदाकूतमेकत्र श्रेष्ठिनो गृहे । विवेश तत्र पुत्रोऽस्ति बालो रोदनिकार्दितः | ६ |
रुदतस्तस्य षण्मास्यासीन्मा रोदीरिति ब्रुवन् । गुरुर्ददौ चप्पुटिकां, व्यन्तरी प्रणनाश सा ॥७॥
*******************************
आ.नि.
वन्दनक
निर्युक्तिः कस्यद्वारम्
नित्यवासद्वारम्
नित्यवासे
सङ्गमस्थविर
दृष्टान्तः । गाथा- ११७७
११७८
७१६
[२१२]