________________
विशेषान ० कोट्याचार्य
वृत्तौ
॥९६७॥
| कारवेम्यत्रापि सप्त लभ्यन्ते १४, एवमेतान्येव करेंतं नाणुजाणतीत्यत्रापि सप्त लभ्यन्ते २१, एवमेतान्येव न करेइ न कारवेद द्वयममुञ्चता सप्त लभ्यन्ते २८ एवमेतान्येवमेव न करेइ करेंतं नाणुजाणतीत्येतदपि द्वयममुञ्चमानानि सप्त लभ्यन्ते ३५, एवमेतान्येवमेव न कारवेइ करेंतं नाणुजाणाईत्येतद्द्द्वयममुञ्चमानानि सप्त लभ्यन्ते ४२, सर्वेऽपि ४२ भङ्गाः, एवमेतान्येवमेव न करेति न कारवेति करेंतं नाणुजाणइति योगत्रयममुञ्चमानानि सप्तैव लभ्यन्त इति ४९, सर्वेऽप्येकोनपञ्चाशत् ४९, कालत्रयगुणनात्तु १४७, स्थापना | चेयं । तथा चाह - 'सीता' इत्यादि गतार्था । अत्र चोद्यम्- 'केई 'त्यादि पुव्वद्धं कंठं, अतोऽनुमतिनिषेधात्कथमेतद्गुण्यं पूर्यते इति न्यूनता शास्त्रस्य तन्न, यतस्तच्छेषं स्पष्टम् ॥ 'तो' इत्यादि । ततः कथं प्रत्याख्याननियुक्तावनुमतिनिषेध उक्तः ? " दुविहंति| विहेण पढमओ" त्ति वचनात् उच्यते स स्वविषयेऽनुमतिनिषेध उक्तस्तस्यां सामान्येन वा अन्यत्र तु विषयात्परतोऽनुमतिं निरुधानस्य को दोषो येन न पूर्यत इत्युच्यते । अपिच - 'पुत्तादी' त्यादि गतार्था, तस्माद् युक्तं गृहस्थस्येदम् ॥ अथ पुनरपि परस्तृतीयभागपातनार्थ चोदयति- 'जुत्त' मित्यादि ॥ 'युक्तं' घटमानकं श्रावकस्य साम्प्रतं संवरणमेकोनपञ्चाशद्विधं तस्य वर्त्तमानत्वात्, तथा एष्यमध्ये कोनपञ्चाशद्विधं संवरणमस्य युक्तं, तस्य निवारयिष्यमाणत्वात् किं न युक्तमित्यत आह-न त्वतीतविषयमप्येकोनपञ्चाशद्विधं संवरणं युक्तं, वृत्तत्वेन समाचरितत्वात्तस्य यत्कृतं तत्कृतमेवेत्यभिप्रायः, अतः कथं तदेकोनपञ्चा शद्भेदं ?, असंभवेन निर्मूलत्वात् कृते वा कार्ये न कथं मृषावादो ?, मृषावाद एव कृतत्वादिति ग्राहः, उच्यते, सत्यमेवमेतद्, यथाऽऽह भवान्, किन्तु - निंद इत्यादि ॥ न करेमिच्चादिवयणतो न करेमि न कारवेमि करेंतंपि अष्णं ण समणुजाणामि मणेणं वायाए कारणंति यदुक्तमे कोनपञ्चाशद्भेदं तेन निन्दनमतीतविषयमभिहितं एतदुक्तं भवति - अतीतकृता कार्यविषया या
प्रत्याख्यान भंगा: अ
प्याद्यर्थव
॥९६७॥