________________
ॐ
विशेषाव कोव्याचार्य
वृत्ती
योगकरणव्याख्या
RECO
॥९६४॥
॥९६४॥
लापकद्वये करणस्य द्वितीयस्थानभाजस्त्रिविधत्वं विवृत्तं, कतमेन ग्रन्थेनेत्याह-मणेण वायाए काएणं, सूत्रगतेनैवेति वाक्यशेषः । 'तिवी'न्यादि । इदानीं सुत्तं तिविहं प्रत्याख्येयं प्रथमपदवतिनं योगमनुभाषते 'न करोमी'त्यादिनैव सूत्रावयवेन, अथ द्वितीयं पदं तृतीयेन व्याख्यातं प्रथमं चतुर्थेन व्याख्यायत इति प्रथमोत्थानं ज्ञात्वा चुचोदयिषुराह-किं पुणरुकमिऊणं जोगं तिविहंति तृतीये स्थाने करणस्य व्याख्यानं कृतं, ननु 'यथोद्देशं निर्देश' इति न्यायादेवमस्तु तिविहेणं न करेमि न कारवेमि करेंतपि अण्णं ण समणुजाणामि मणेणं वायाए कायेणं । न चेदेवम्-'तो न' इत्यादि ॥ ततो न यथोद्देशं तथोपन्यासनिर्देशो-व्याख्यानं, तृतीयस्थाने | करणविवरणात् , भण्यते-निशमय प्रयोजनं, तथाहि-योगस्य कार्यवाङ्मनःप्रवृत्तिलक्षणस्य करणतन्त्रोपदेशनार्थ 'व्यत्यासः कृत' | अन्यथा निर्देशः कृतः, करणाधीनत्वात्कर्मण इति भावार्थः । तथाहि-'देसिन' मित्यादि ॥ एवं व्यत्यासं कुर्वता सूत्रकारेण दर्शितं | यदुत स योगः करणवशानियतमप्रधान इति । किं कारणमित्याह-'तावे' करणभावे भावाद् योगस्य, तदभावे चाप्यभावात् , करणं कर्तुरनान्तरमितिकृत्वा । तथा च-'तस्से' त्यादि ॥ तस्य योगस्य 'तदाधारत्वात्' करणाधारत्वादसौ प्रधान इति, तानि | कारणमस्येति तत्कारणस्तस्माच्च, करणपरिणतेश्च योगस्याप्राधान्यं, तथा परिणन्तुः' कर्तुरनर्थान्तरभावात् करणानां, करणमेवासौ | योगः, आह-यद्येवमुद्देशोऽप्येवं कस्मान्न कृतः ? उच्यते, योगस्य प्रत्याख्येयत्वेन प्राधान्यख्यापनार्थम् । यत एव चैवं वस्य तदा
धारताऽतो सर्वा गाथां पठित्वा-'एत्तोचिये त्यादि । अत एव जीवस्यापि तन्मयता' करणात्मकता गम्यते, कुत इत्याह-करण| योगपरिणतिरूपत्वात् , सा च मन्यते नयान्तरात् कदाचित्कथश्चित्समये, यतोऽभिहितम्-'आया' इत्यादि । इहात्मैव परमार्थतोऽहिंसा, न बाह्या, शुभमनोयोगपरिणामादनन्यत्वाद्, विपर्यये विपर्ययतः, तथा च-'जोइत्यादि स्पष्टम् ॥ 'आहे' त्यादि ॥ आह
R
CAR0%
RECORDS