________________ नमः श्रीवीतरागाय // श्रीमज्जिनभद्रगणिक्षमाश्रमणविरचितं श्रीमत्कोटयाचार्यकृतवृत्तिविभूषितम् / / ॥विशेषावश्यकभाष्यम् // मंगलं नतविषुधबधूनां कन्दमाणिक्यभासश्चरणनस्वमयूखैरुल्लसदभिः किरन यः / अकृत कृतजगच्छ्रीर्वेशनां मानवेभ्यो, जनयतु जिनवीरःस्थेयसीं वः स लक्ष्मीम् // 1 // विकचकेतकपत्रसमप्रभा, मुनिपवाक्यमहोदधिपालिनी। प्रतिदिनं भवताममरार्चिता, प्रविदधातु सुखं श्रुतदेवता // 2 // भव्याम्बुरुहाणि ज्ञानकरैयोंधितानि वः सन्तु / अज्ञानध्वान्तभिदे जिनभद्रगणिक्षमाश्रमणपूज्यार्काः // // इह तैः सकलचरणकरणक्रियाकलापाधारत्वेनापवर्गप्राप्तिहेतुमावश्यकं विशेषेण व्याचिख्यासुभिरिदमादिगाथासूत्रमभ्यधायि कयपवयणप्पणामो वोच्छं चरणगुणसंगहं सयलं / आवस्सयाणुओगं गुरूवएसाणुसारेणं // 1 // अथवाऽऽवश्यकानुयोगाभिधानेन स्वपरोपकारितामुत्पश्यन्तः सन्तः पूज्यपादाः शिष्टसमयपरिपालनार्थ विघ्नविनायकोपशान्तय मम्गलार्थमभिधेयप्रदर्शनार्थ चादाविदमुक्तवन्तः-'कयपवयणप्पणामों इत्यादि / तत्र शिष्टानामयं न्यायः-यदुत शिष्टाः कचिदिष्टे CAREORGANGACAR RASI