________________
वैराग्यरस
पञ्चम
मञ्जरी॥
SCRETA5%
गुच्छके
॥२१॥
ति
सम्यक्त्वलिङ्ग वर्णनम् ॥
व्याधिभिर्व्याकुलो नित्यं दारिद्रयदुःखपूरितः । प्रियाणां विप्रयोगेन दुःखार्णवे निमज्जति ॥६८॥ अप्रिययोगतश्चित्ते यः संतापः प्रजायते । कथनं तत्स्वरूपस्य केवलिनैव पार्यते
॥६९॥ पृथ्वीकाये यदा देवः स्वोत्पत्तिं किल पश्यति । यत्तदा जायते दुःखं केवलिनैव ज्ञायते ॥ ७०॥ एवं समस्तसंसारे यानि दुःखानि तानि च । भविष्यजन्मभावीनि रमन्ते तस्य चेतसि देवेन्द्रचक्रवर्तित्वा-दिपदमधुवं सदा । आभाति तस्य चित्ते हि बालौघधूलिधामवत् ॥७२॥ तत्सावद्योद्यमं यत्र करोति तत्र ताम्यति । सर्वसावद्यसंयोगं मुमुक्षुरपि नाऽऽप्नुयात् ॥७३॥ त्यक्तसंसारदुःखौघान् स साधून् बहु मन्यते । सच्चारित्रं विना नैव हर्षस्थानं कचिद्भजेत् ॥७४॥ एवं भावयतश्चित्ते बाह्यतोऽपि प्रवर्तनात् । निर्वेदो लक्ष्यते लिङ्गं सम्क्त्वस्य प्रसाधकम् ॥७ ॥ अनुकम्पापरो जीवे सम्यग्दृष्टिः सदा भवेत् । अन्यदुःखप्रहाणेच्छा तच्चित्त च विजृम्भते ॥७६ ॥ तेषां दुःखविनाशे हि कारणं जैनशासनम् । मिथ्यात्वरोगव्याप्तानां तत्परिणम्यते कथम् ? ॥७७॥ रम्यं जिनेश्वरस्यात्र मन्दिरं चेद् विरच्यते । न्यायव्येण तदृष्ट्वा बोधिलाभो भवेत् ध्रुवम् ॥७८॥ कारयामि प्रभोविम्बं दृष्ट्वा यन्मन्यते जनः । सर्वदेवाधिदेवोऽयं केनैवं पूज्यतेऽन्यथा ? ॥७९॥ मुद्राऽण्यलौकिकी तस्या-न्यदेवेभ्योऽतिरिच्यते । गुणिनो दर्शनादेव दर्शको गुणमाप्नुयात् ॥८ ॥ सगद्वेषयुतान्येषां स्पष्टा मुद्रा विलोक्यते । वीतरागः सुदेवोऽय-मेवं बोधिमवाप्नुयात् ॥८१॥
A9-%%958
॥२१॥