________________
वैराग्यरसमञ्जरी॥
चतुर्थ
गुच्छके
॥१३॥
तत्त्वत्रयी वर्णनम् ॥
4%A4%AC
आधिव्याधिहतो जीवः कुटुम्बान्तर्गतः प्रिय: दन्दहीत्यत्र दुःखाग्नौ वह्नौ चटकपोतवत् ॥१९३ ॥ न दुःखं स्वजना लान्ति वैद्यास्त्राणं न चौषधैः । कुर्वन्ति नीयते जीवो मृत्युव्याणपोतवत् ॥१९४ ॥ मुच्यते नैव द्रव्येण मन्त्रतन्त्रैर्भुजावलैः। औषधिमणिविद्याभि-विना धर्म च मृत्युतः संसरन्तोऽत्र संसारे जीवाः शरणवर्जिताः।जराजन्मादिदुःखानि लभन्ते विप्रयोगिनः वासुदेवबलाश्चेन्द्रास्तथात्र चक्रवर्तिनः । म्रियन्ते शरणाद्धीना-स्तस्माद्धर्म समाचर ॥१९७ ॥ इयमाख्याति लोकेऽत्र शरणं धर्म एव वः। तमङ्गीकृत्य भो भव्य! भावनां सफलीकुरु ॥१९८ ।। जन्ममृत्युजराध्वस्ताः शोकरोगप्रपीडिताः । प्राप्नुवन्ति सहस्राणि दुःखानि भवसागरे ॥१९९ ।। संसारे तत्सुखं नास्ति यन्न भुक्तं भवे भवे । यत्र जातो मृतो नैव सा योनि व विद्यते ॥२०॥ यदि त्वं तैः सुखैर्जीवः सन्तोषभाग् न चाभवः। क्षणिकैवर्तमानैस्तैः कथं तृप्तिर्भविष्यति ? ॥ २०१॥ तिलतुषसमं नास्ति द्रव्यं यन्नहि भुक्तवान् । मुक्तवान् जगति जीवास्तत्सर्वं वान्तिवद्भवेत् ॥२०२।। महानिधिनिभं जन्म विषयास्त्वस्थिखण्डवत् । जायन्ते जनुषा येन सर्वाण्यपि सुखानि हि ॥२०३ ।। जनिता ग्रसिताः सर्वे एष सर्वैश्च ग्रासितः । जनितो भवकान्तारे नास्ति कः कस्य वल्लभः १ ॥२०४ ॥ सर्वेऽपि देवता आसन् नृतिर्यचोप्यनन्तशः। श्वभ्रज्वालाभिराक्रान्ता दु:खिनो भवसागरे ॥२०५॥ धिर धिगसारसंसारं देवस्तिर्यक्षु जायते । मृत्वा हा! राजराजोऽपि श्वभ्रज्वालासु पच्यते ॥२०६॥
ISRUSALAMA
॥१३॥