________________
धर्मशब्दे समानेऽपि लोकलोकोत्तरागमे । अन्तोऽत्यन्तविभेदोऽस्ति यथा दुग्धे स्नुहीगवोः ॥१६॥ सर्वमेकान्तिकं पुष्यात् दर्शनं मोहमोहितं । मोहनिर्मुक्तजैनेन्द्र वस्तुस्थित्या यथास्थितम् ॥९७॥ अनेकान्तं यतस्तेन विग्रहवर्जितं मनः। रागद्वेषविनिर्मुक्तं प्राप्नोति परमं सुखम् ॥९८॥ युग्मम् ।। अहंकारविनिर्मुक्तं निःसहं निर्मलं तथा । एकान्तिकहठत्यागात् प्राप्नोति परमं सुखम् ॥९९ ॥ सर्वतो निस्पृहीभूय मिथ्याभ्रान्तिमपास्य च । शुद्धतत्त्वे विलीनं च प्राप्नोति परमं सुखम् ॥१०॥ जिनेशचरणे रक्तं समं मानापमानयोः । सद्धर्मध्यानतो चेतः प्राप्नोति परमं सुखम् तत्त्वज्ञानशा दृष्टे शब्दादिविषयेऽखिले । समीभूय शुभं चित्तं प्रामोति परमं सुखम् ॥१०२॥ जिनेन्द्रवासितं चित्तं पूजाहिंसामलग्नयोः । समं शमरसे लीनं प्रामोति परमं सुखम् प्रभुत्यक्तपदार्थेषु तद्धर्मपूर्णवासितम् । निर्लिप्तभावनाव्याप्तं प्रामोति परमं सुखम् ॥१०४॥ निर्विकारिजिनध्यानात् मनोहारिषु वस्तुषु । रामादिषु समीभूय प्रामोति परमं सुखम् । मैत्रीप्रमोदकारुण्य-माध्यस्थ्यवासितं मनः । प्रभोश्चरित्रमालोच्य प्रामोति परमं सुखम् अष्टकर्मविनिमुक्तं प्रभोः पादप्रसादतः । कर्मविकल्पतो मुक्तं प्राप्नोति परमं सुखम् ॥१०७॥ एवं विशुद्धधर्मेण चित्तं भवति निर्मलम् । सर्वदुःखविनिर्मुक्तं प्राप्नोति परमं सुखम् ॥१०८॥ सोऽपि चतुर्विधः प्रोक्तो विरागिभिर्जिनेश्वरैः । दानशीलतपोभाव-गुद्धारकरी नृणाम् ॥१०९॥
AGARCACACACANA
ॐAA-%