________________
स्वकीयां कल्पनां मूढो मन । तत्त्वधारिणीम् । पूर्वीयाणां तथा नैव कुकर्ममहतो जडः ॥१७॥ स सम्यक्त्वं समुद्दाल्य कुतर्कभ्रान्तचित्तकः । स्वकीयकल्पनाकाचं हा! हा! रक्षति यत्नतः ॥१८॥ अधुना पश्चमे काले विशेषाः कृष्णपाक्षिकाः। भाविनो भरते सव्ये इत्यस्ति पूर्वभाषितम् ॥१९॥ प्रत्यक्षं लक्ष्यते तत्तु तेषां दुर्भाग्ययोगतः। उन्नतिर्दुर्गतिगानां चेतस्तुदति धर्मिणाम् ॥२०॥ विंशत्तमशताब्द्यां हा ! जज्ञिरे-ईदृशा जनाः। सावधानं मनस्कृत्वा निजं रक्षत रक्षत ॥२१॥ मिथ्यात्वपोषका मूखैः कथ्यन्ते धर्मधारिणः । ये धर्मधारिणो लोके तान् वदन्ति विघातिनः ॥ २२॥ ये सम्यक्त्वव्रतस्थाः स्युःतैः सम्मिल्य प्रयत्नतः। शास्त्रविरोधिनांरोधः कार्यः स्वेषां विवर्धनम् ॥ २३ ॥ सुधर्मादू भ्रश्यतो लोकान् ये रक्षन्ति कृपालवः । धन्यास्ते कृतपुण्यास्ते तानन्वहं नमाम्यहम् ॥ २४ ॥ तीर्थेशानां त्रिकालार्चा कर्तव्या स्वर्गदायिका । बोधिसौलभ्यलाभाय बोधिदुर्गतिवारक: ॥२५॥ संसारनीरधौ पूजा यानपात्रसमा मता। शिवप्रदीपिका पूजा वजं दारिद्रयभूभृताम् सर्वकल्याणकी स्याद नृसुरीवैभवप्रदा । दुःखाग्नौ पयसां धारा प्रभोः पूजा सुदुर्लभा ॥२७॥ स्नपयन्ति जगन्नाथं तत्कर्मरजसां शमः । ये पूजयन्ति तत्पादौ पूज्यन्ते जगतां जनैः ॥२८॥ ये वन्दन्ते च ते वन्या ध्येया ध्यायन्ति तीर्थपान् । गेया गायन्ति ये स्तोत्रै-र्भवन्ति खलु भावुकाः॥२९॥ निजं मौलिं नमस्कृत्य तीर्थेशं सफलीकुरु । तद्गुणाकर्णतः कर्णो रसनां गुणगानतः ॥३०॥