SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ वैराग्यरसमञ्जरी॥ तृतीयगुच्छके नरक वर्णनम् ॥ ARRORSCRCRA तृतीयगुच्छकः । कदाचिद्रागरक्तं च कदाचिद्वेषव्याकुलम् । कदाचिन्मोहमूढं हा! कदाचित्क्रोधतापितम् ॥१॥ मानमायाविकारेण मोहलोभवशीकृतम् । चित्तमुपार्जयत्येवं हहात्र भूरिपातकम् ॥२॥ युग्मम् ॥ गत्वा तु नरके रे ! रे ! परमाधार्मिकैः कृतम् । यद्यदुःखं त्वया सोढं वदितुं तन्न पार्यते ॥३॥ तथापि वर्णिकामात्रं कथ्यते शृणु भावुक ! । श्रुत्वा संगृह्य चारित्रं भव स्वर्गापवर्गभाक् ॥४॥ तत्रोत्पन्ने त्वयि भ्रातः! महाकाया भयङ्कराः ! आविर्भूता महाक्रूराः परमाधार्मिकाऽसुराः ॥५॥ कर्तर्याकर्त्तयन्तस्ते गात्रं ते रसतः सतः। हसन्ति निर्दया अङ्गं कुर्वन्तः खण्डखण्डशा ॥६॥ तथापि पारदस्थित्या मिलिते जीव ! गात्रके । धावन्तं त्वां ग्रहीत्वा द्राग् पातयन्ति भुवस्तले ॥७॥ तीव्रज्वलितज्वालाया-मनिच्छन्तं हठाद्धि ते । प्रक्षिप्त्वा वज्रकुम्भ्यां त्वां पचन्ति दु:खदायिनः ॥८॥ तृषातुरो रुदन्नात्थ तान् भो ! भो! मातरो मम । पितरो भ्रातरो यूयं दुःखाद् रक्षत रक्षत ॥९॥ पाययत जलं शीत-मिति दीनवचो यदा । श्रुतं तैर्मधुरैर्वाक्यैः प्रोक्ताः समीपगास्तदा ॥१०॥ आकृष्य वज्रकुम्भीतः सलिलं शीतलं तथा । अर्पयत वराकं तत्तथेति प्रतिपद्यते ॥११॥ युग्मम् ।। तप्तताम्रपू क्षिप्त्वा भाजने पाययन्ति ते। सन्दंशकेन सन्धृत्य मुखं व्यादाय पापिनः असह्योष्णतया दग्धो नेत्रे निमील्य मूच्छितः । पतितो धरणीपीठे कालादायातचेतनः ॥१३॥ ॥५॥
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy