SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ दीपालिका॥९॥ लोलुपो भविता भृशम् ॥ २६३ ॥ पुराकरमदातृणां करकर्ता महाकरम् । सकराणां करें नव्यं महाकरवतामपि ॥ २६४ ॥ वृथैव दोषमुत्पाद्य लाता धनवतां धनम् । छलं वदति भूपानां हलं नेति नयं वदन् ॥ २६५ ॥ लोकात्तथाऽग्रहीतार्थं यथा भाव्यधनो जनः । पृथ्व्यामूर्णायुचीर्णायां प्राप्यते न यतस्तृणम् ॥ २६६ ॥ लोके तेन सुवर्णादि-नाणकं नाशयिष्यति । चर्मणो नाणकैस्तेन व्यवहारः प्रवर्त्स्यति ॥ २६७ ॥ वेश्याः पाखण्डिनः सर्वे कल्किना याचितं करम् । तस्मै दास्यन्ति सारंभाः सावद्याः सपरिग्रहाः ॥ २६८ ॥ पर्णादौ भोजनं कुर्व- नाक्रोशांस्तस्य पश्यतः । जनो दास्यति निःस्वःसं भयं भवति भाजने ॥ २६९ ।। भाविनि जिनसद्मानि विहरिष्यन्ति साधवः । वर्षिष्यन्ति च कालेऽब्दा द्रोणो द्रम्मेण लप्स्यते ॥ २७० ॥ कल्की त्यक्तधनान् साधू - नन्यदा राजवर्त्मनि । विलोक्य लोभतो भिक्षा - पष्ठांशमर्थयिष्यति ॥ २७९ ॥ ततः साधुकृतोत्सर्गा-हूता शासनदेवता । याचमानान्यतीन् भिक्षां कल्किनं वारयिष्यति ।। २७२ ॥ ततः सर्वप्रकारेण धनं लास्यति लोकतः | त्याजयिष्यति लिंगानि लिंगिभिः स दुराशयः ॥ २७३ ॥ वाम जंघासव्यकुक्ष्योः सप्रहारौ भविष्यतः । पंचाशत्तमवर्षस्य तस्य दुष्कर्मयोगतः ॥ २७४ ॥ अन्ते कल्की पुनः स्मृत्वा भिक्षाषष्ठांशहेतवे । गोवाटके प्रातिपदा - चार्य साधून्निरोत्स्यते ॥। २७५ ।। तदा प्रातिपदाचार्य - मुख्यसंघोऽखिलोपि हि । शासनदेवतां स्मृत्वा कायोत्सर्ग विधास्यति ॥ २७६ ॥ कायोत्सर्गेण संघस्य प्राप्ताः शासनदेवताः । युक्तिभिर्बोधयिष्यन्ति यावत्कल्की न भोत्स्यते ॥ २७७ ॥ तावदासन कम्पेन तत्रागन्ता समुत्सकः । वृद्धद्विजवपुः कृत्वा शक्रः शासनभक्तितः ॥ २७८ ॥ तं च सिंहासनासीनं वदिष्यति दिवस्पतिः । निरागसः किमेतेऽत्र निरुद्धाः साधवस्त्वया ॥ २७९ ॥ स प्राह जज्ञिरे सर्वे पाखण्डाः करदा मम । भिक्षांशं १ सामान्यविधान । कल्पः ॥९॥
SR No.600318
Book TitleDipalikakalp
Original Sutra AuthorN/A
AuthorJinsundarsuri
PublisherLabdhisuri Jain Granthmala
Publication Year1952
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy