________________
तस्माद्वत्सराणां शते १३५ गते । वर्तयिष्यत्युञ्जयिन्यां शकः संवत्सरं निजं ॥ १२१ ॥ युग्मम् ॥ पंचाशीत्या समधिकैर्वर्षाणां | पंचभिः शतैः ५८५ । विक्रमानेहसः सूरि- हरिभद्रो भविष्यति ॥ १२२ ॥ मत्तोऽधिकैस्त्रिनवत्या नववर्षशतैर्गतैः ९९३ । सूरयः कालिकाह्वया भाविनः शक्र - वन्दिताः ॥ १२३ ॥ ते श्रीपर्युषणापर्व चतुर्थ्यां पंचमीदिनात् । सर्वाचार्यानुमत्यैव समानेव्यन्ति हेतुतः ॥ १२४ ॥ द्वादशशतैर्वर्षाणां सप्ततौ १२७० मम मोक्षतः । बप्पभट्टिगुरुर्भावी सर्वविद्याविशारदः ।। १२५ ।। तद्वाक्यादाऽऽमराजा मे प्रतिमां गोपपर्वते । कारयिष्यति सार्द्ध - त्रिकोटिस्वर्णमयीं मुदा ॥ १२६ ॥ त्रयोदशशतै १३०० वर्षे प्रयातैर्मम मोक्षतः । मतभेदा भविष्यन्ति बहवो मोहहेतवः ॥ १२७ ॥ विक्रमानेहसो जाते - ष्वेकादशशतेष्वथ १९५९ । एकोनपथ्यधिकेषु राकापक्षो भविष्यति ।। १२८ ॥ वत्सरैर्द्वादशशतै-चतुर्भिरधिकैर्गतैः १२०४ । भावी विक्रमतो गच्छः ख्यातः खरत| राख्यया ॥ १२९ ॥ शरच्छतैर्द्वादशभिर्गतैत्रयोदशोत्तरैः १२१३ । राकापक्षात्पृथग्भूतोऽचलपक्षो भविष्यति ॥ १३० ॥ षट्त्रिंशदधिकैर्व-गतैर्द्वादशभिः शतैः १२३६ । सौर्द्धराकाभिधो गच्छी महाशयो भविष्यति ।। १३१ ॥ पंचाशताधिकैर्वर्षे -तिदशभिः शतैः १२५० । विक्रमानेहसो भावी गच्छ आगमसंज्ञकः ॥ १३२ ॥ नैकधामतभेदेन दुष्षमाद्धानुभावतः । चतुरशीतिसंख्येया गणभेदा हि भाविनः ॥ १३३ ॥ केचित्तपोगौरविताः केऽपि धर्मक्रियाश्लथाः । क्रियावन्तो भविष्यन्ति परस्परसम
१- मतो मम निर्वाणात् (विरनिर्वाणात्) । २-ग्वालियरने विषे ३-साडा व्रण कोड सुवर्ण खर्च थाय तेवी एक प्रतिमा । ४- दोढ पुनमीओ-पूर्णिमा अने चतुर्दशी संधी मान्य । ५-साढ पुनमीया नामे गच्छ थशे । ६- त्रिस्तुतिकः । ७- चतुरशीति- १- नागेन्द्र, २-चन्द्र, ३- निर्वृत्ति, ४-विद्याधर का नामनां चार आचार्य थाय, ते मध्ये एक एक आचार्यना एकवीश एकवीश गच्छ नीकलशे एवं ८४ गच्छ थाय.