________________
श्रीभग लपवत
१-२ उ.
पपन्नत्वेन च योगवैषम्याद्विमात्र विशेषाधिकं कर्म कुर्युः २ तथा ये विषमायुषः समोपपत्रकास्ते विमात्रस्थितयः, समोपपन्नत्वेन समानयोगत्वात् तुल्यविशेषाधिकं कर्म कुर्युः ३ तथा ये विषमायुषो विपमोपपन्नकास्ते विमात्रस्थितयो विषमोपपन्नत्वाच्च योगवैषम्येण विषममात्र विशेषाधिकं कर्म कर्तुः ४ ॥३४ शते प्रथमः॥ __ 'दुपओ भेदो'त्ति (सू. ८५२) अनन्तरोपपत्तिकैकेन्द्रियाधिकारेऽनन्तरोपपन्नानां च पर्याप्तकत्वाभावादपर्याप्तकानां सूक्ष्मा बादराश्चेति द्विपदो भेदः, 'उववाएण सव्वलोए, समुग्घाएणं सव्वलोए'त्ति, कथं ?, उपपातेन उपपाताभिमुख्येनापान्तरालगतिवृत्त्येति भावः, समुद्घातेन मारणान्तिकेनेति, ते हि ताभ्यामतिबहुत्वात् सर्वलोकं व्याप्य वर्तन्ते, इह चैवंभूतायाः स्थापनायाः भावना कार्या, [10] अत्र च प्रथमवक्रं यदेवैके संहरन्ति तदैव तद्वक्रदेशमन्ये पूरयन्ति, एवं द्वितीयवक्रसंहरणेऽपि, अबकोत्पत्तावपि प्रवाहतो भावनीयं, अनन्तरोपपन्नकत्वं चेह भाविभवापेक्षं ग्राह्यं, अपान्तराले तस्य साक्षादभावात् , मारणान्तिकसमुद्घातश्च प्राक्तनभवापेक्षया, अनन्तरोपपन्नकावस्थायां तस्यासम्भवादिति, सठाणेणं लोगस्स असंखेज'त्ति रत्नप्रभादिपृथ्वीनां विमानानां च लोकस्यासङ्ख्येयभागवर्त्तित्वात् , पृथ्व्यादीनां च पृथ्वीकायानां स्वस्थानत्वादिति, 'सठाणाई सव्वेसिं जहा ठाणपदे तेसिं पजत्तगाणं बायराणं'ति इह तेषामिति पृथ्वीकायानां अट्ठसु पुढवीसु तंजहा स्यणप्पभाए'त्ति, बादरापकायानां तु 'सत्तसु घणोदहीसु'इत्यादि, बांदरतेजस्कायिकानां तु 'अन्तोमणुस्सखेत्ते'इत्यादि, बादरवायुकायिकानां पुनः 'सत्तसु घणवायवलएसु' इति, बादरवनस्पतीनां तु 'सत्तसु घणोदहीसु'इत्यादि, उववायसमुग्घायसठाणाई जहा तेसिं चेव अपजत्तगाणं बायराणं'ति इह 'तेसिं चेव'त्ति पृथ्वीकायादीनां, तानि चैवम्-जत्थेव बोयरपुढवीकाइयाणं पजत्ताणं ठाणा तत्थेव बादरपुढ
mmmmunimimarumngimemurginal anil nanmissimulimamaelimmunity/mealsimanmiyn HITAMADHANAADMINIORIANDAR NAMDialmanARITAMARHIMAndMinema