SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ त्रसनाडी सा अधोलोकत्रसनाडी तस्याः, एवमूर्ध्वलोकत्रसनाढ्यपि, 'तिसमइएण वत्ति अधोलोकक्षेत्रनाड्या वहिः पूर्वादिदिशि मृत्वा एकेन नाडीमध्ये प्रविष्टो द्वितीये समये ऊर्ध्वं गतः तत एकप्रतरे पूर्वस्यां पश्चिमायां वा यदोत्पत्तिः स्यात् तदाऽनुश्रेण्यां गत्वा तृतीयसमये उत्पद्यत इति, 'चउसमइएण वत्ति यदा नाड्या बहिर्वायव्यादिविदिशि मृतः तदैकेन समयेन पश्चिमायामुत्तरस्यां वा गतो, द्वितीयेन नाड्यां प्रविष्टः, तृतीये ऊर्ध्वं गतः, चतुर्थे त्वनुश्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यते, इदं च प्रायोवृत्तिमङ्गीकृत्योक्तं, अन्यथा पञ्चसामायिक्यपि गतिः सम्भवति, यदा अधोलोककोणादूर्ध्वलोककोण एवोत्पत्तव्यं स्यादिति, अत्र गाथाः स्युः, "सुत्ते चउसमयाओ नत्थि गईए परा विनिद्दिट्ठा | जुजइ य पंचसमया जीवस्स इमा गई लोए ||१||" जो तमतमविदिसाए समोहओ बंभलोय विदिसीए । उववञ्जए गईए सो णियमा पंचसमयाए || २ || उज्जुयाए एगवंका दुहओवंका गई विणिद्दिट्ठा । जुजई य तिचउवंकावि नाम चउपंचसमयाए || ३ || उववायाभावाओ न पंचसमयाऽहवा न संतावि । भणिया जह चउसमया मह बंधा न संतावि || ४ || ति 'अपज्जत्तबायर तेउकाइया णं' ति 'दुसमइएण वा तिसमइएण वा विग्गहे णं उववज्जेज्ज' ति अस्येयं भावना - समयक्षेत्रादसावेकेन समयेनोर्ध्वं गतो, द्वितीयेन तु नाड्या बहिर्दिग्व्यवस्थितमुत्पत्तिस्थानमिति तथा समयक्षेत्रादेकेनोर्ध्वं याति, द्वितीयेन तु नाड्या बहिः पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति, अथ लोक़चरमान्तमाश्रि| त्याह- 'अपज्जत्तसुहुम पुढविकाइए णं भंते! लोगस्स'त्ति इह च लोकचरमान्ते वादराः पृथ्वीकायापूकायतेजोवनस्पतयो न सन्ति, सूक्ष्मास्तु पञ्चापि सन्ति, बादरा वायुकायाश्चेति पर्याप्तकापर्याप्तकभेदेन द्वादश स्थानान्यनुसर्त्तव्यानि, इह च लोकस्य पूर्वचस्मान्तात् पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गतिः सम्भवति, अनुश्रेणिविश्रेणिसम्भवात्, पूर्वचरमान्तात् ३४ श० १ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy