SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ श्रीभम० लघुवृत्तौ Do शेषास्तस्य स्युः, ' एवं सम्मद्दिट्ठीस्सवि'त्ति तस्याप्ययोगित्वसम्भवेन बन्धासम्भवात्, मिध्यादृग्मिश्रदृष्ट्या योगित्वाभावेन वेदनीयाबन्धकत्वं नास्तीत्याद्यावेव स्यातां, अत एवाह - 'भिच्छद्दिट्ठी' त्यादि । ज्ञानिनः केवलिनश्चायोगित्वेऽन्तिमोऽस्ति आमिनिबोधिकादिष्वयोगित्वाभावे चरमो न, अत आह- 'नाणिस्से' ति एवं सर्वत्र यत्रायोगित्वं सम्भवति तत्र तृतीयविहीना यत्र तु तन्नास्ति तत्राद्यौ द्वावेवेति भाव्यं । आयुष्कर्मदण्डके (सू. ८१४) 'चउभंगो'ति तत्र प्रथमोऽभव्यस्य, द्वितीयो यश्वरमशरीरो भविष्यति तस्य तृतीयस्तूपशमकस्य, सह्यायुर्वद्धवान् पूर्वं, उपशमकाले न बनाति, तत्पतितस्तु मत्स्यति, चतुर्थस्तु क्षपकस्य, स ह्यायुर्न बद्धवान् न बध्नाति, न च मत्स्यतीति 'सले से' इह यावत्करणात् कृष्णालेश्यादिग्रहस्तत्र यो न निर्वास्यति तस्य प्रथमः यस्तु चरमशरीरतयोत्पत्स्यते तस्य द्वितीयः, अबन्धकाले तृतीयः, चरमशरीरस्य चतुर्थः एवमन्यत्रापि 'अलेसे चरमो' ति अलेश्यः शैलेशीगतः सिद्धश्च तस्य वर्त्तमानभविष्यत्कालयोरायुषोरवन्धकत्वाच्चरमो भङ्गः, कृष्णपाक्षिकस्य प्रथमः तृतीयश्च सम्भवति, तत्र प्रथमः प्रतीत एवं तृतीयस्त्वायुष्काबन्धकाले न बन्नात्येव, उत्तरकालं तु तद्भन्त्स्यतीत्येवं स्यात्, द्वितीयचतुर्थौ तु तस्य नाभ्युपगम्येते, कृष्णपाक्षिकत्वे सति सर्वथा तदर्भत्स्यमानताया अभाव इति विवक्षणात् शुक्लपाक्षिकस्य सम्यग्दृष्टेश्च चत्वारः, तत्र बद्धवान् प्राग् बध्नाति च बन्धकाले भंत्स्यति चाबन्धकालस्योपरि इत्येकः, बद्धवान् बध्नाति न भन्त्स्यति चरमशरीरत्वे इति द्वितीयः, तथा बद्धवान् न बध्नाति अबन्धकाले उपशमावस्थायां वा भंत्स्यति च पुनर्बन्धकाले पतितो वेति तृतीयः, चतुर्थस्तु क्षपकस्येति, मिथ्यादृष्टिस्तु द्वितीयभङ्गे न भन्त्स्यति चरमशरीरप्राप्तौ तृतीये न बन्नात्यबन्धकाले, चतुर्थे न वन्नाति अबन्धकाले न भन्त्स्यति चरमशरीरप्राप्ताविति, 'सम्मामिच्छे' ति सम्यग्मिथ्यादृष्टिरायुर्न बनाति, चरमशरीरत्वे कश्चिन्न भन्त्स्यति इति कृत्वाऽन्त्या वेवेति, ज्ञानिनां GUCCIGJOC DOECOLOGPOLECOL १२६ श० १ उद्देशः ॥ २८६॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy