________________
श्रीभग
वती
सूत्रम्
लघुपरिणामतयेति संग्रहगाथार्थ : ४०|| अथ नारकाहारविषयं प्रश्नचतुष्टयमाह-'नेरइयाण' मित्यादि० (सू. १२).
'पुव्वाहारिय'त्ति ये पूर्वकाले आहृताः संगृहीता अभ्यवहृता वा 'पोग्गल'त्ति पुद्गलस्कंधाः ते 'परिणय'त्ति परिणता वपुष्परि गतिं गता इति प्रथमः प्रश्नः १, 'आहारिय'त्ति आहृताः पूर्ववत् 'आहरिजमाण'ति ये वर्तमानकाले आहियमाणाः संगृह्यमाणाः पुद्गलाः परिणताः इति द्वितीयः प्रश्नः २, 'अणाहारिय'ति ये अतीतकाले अनाहताः, 'आहरिजिस्समाण'त्ति येडनागते काले आहरिष्यमाणाः पुद्गलास्ते परिणताः इति तृतीयः प्रश्नः ३, तथा अणाहारिया अणाहरिजिस्समाणति अतीतानागताहरण क्रियानिषेधाच्चतुर्थः ४, इह च यद्यपि चत्वार एवं प्रश्ना उक्ताः तथाप्येते त्रिषष्टिः संभवन्ति, यतः पूर्वाहृताः आहियमाणा आहरिष्यमाणाः ३ अनाहृता अनाहियमाणा अनाहरिष्यमाणाः ३ इतीह षद्भङ्गाः सूचिताः, तदेकैकपदाश्रयणेन पट् ६ द्विकयोगे १५ त्रिकयोगे २० चतुष्कयोगे १५ पंचकयोगे ६ षद्योगे एक १ इति, अथैतद्व्यक्तिर्विशेषतो विक्रियते, यथा आहृताः १ आहियमाणाः १ आहरिष्यमाणाः १ अनाहताः १ अनाहियमाणाः १ अनाहरिष्यमाणाः १ अतीत वर्तमानानागतकाल भेदैरेककयोगा जाताः पद्, अथ द्विकयोगाः पञ्चदश, ते चैवं यथा आहृता आहियमाणाः १ आहृता आहरिष्यमाणाः २ आहृता अनाहताः ३ आहृता अनाहियमाणाः ४ आहृता अनाहरिष्यमाणाः ५ आहियमाणा आहरिष्यमाणाः ६ आहियमाणा अनाहृताः ७ आहियमाणा अनाद्रियमाणाः ८ आहियमाणा अनाहरिष्यमाणाः ९ आहरिष्यमाणा अनाहृताः १० आहरिष्यमाणा अनाहियमाणाः ११ आहरिष्यमाणा अनाहरिष्यमाणाः १२ अनाहता अनाहियमाणाः १३ अनाहृता अनाहरिष्यमाणाः १४ अनाहियमाणा अनाहरिष्य
९ शतके १ उद्देशः