SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्रम् छद्दिसिं आहारेंति, इह नारकाणां लोकमध्यवर्तित्वेन पण्णामप्यूर्ध्वादिदिशामलोके नानावृतत्वात् षट्सु दिक्षु आहारग्रहणमस्ति, तत उक्तं-नियमात् षदिशि, दिक्त्रयादिविकल्पास्तु लोकान्तवर्तिषु पृथिवीकायिकादिषु दिशां त्रयस्य द्वयस्य एकस्याश्चालोकेनावरणे भवतीति, यद्यपि वर्णतः पंचवर्णानीत्याद्युक्तं तथापि प्राचुर्येण यद्वर्णगंधादियुतानि द्रव्याण्याहारयन्ति तद्दर्शयति- 'उस्सण्णकारणं पडुच्च' त्ति बाहुल्यलक्षणं कारणमाश्रित्य तत्र च प्रकृत्यशुभानुभाव एव कारणमिति, वण्णओ कालनीलाई, गंधओ दुब्भिगंधाई, रसओ तित्तकडुयरसाई, फासओ कक्खडगुरुयसीयलुक्खाई, एतानि च प्रायो मिथ्यादृष्टय एवाहारयन्ति, न तु भविष्यत्तीर्थकरादय इति, अथ तानि यथास्वरूपाण्येव नारका आहारयन्ति अन्यथा वेत्यस्यामाशङ्कायामभिधीयते - तेसिं पोराणे वण्णगुणे गंधगुणे रसगुणे फासगुणे विप्परिणमइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धंसत्ता, विपरिणामादयो विनाशार्थत्वेनैकार्था एव ध्वनयः, अण्णे य अपुव्वे वण्णगुणे गंधगुणे रसगुणे फासगुणे उप्पाएत्ता आयसरीरोगाढे पोग्गले सव्वप्पणयाए आहारैति, सव्वप्पणयाएत्ति सर्वात्मना, सर्वैरात्मप्रदेशैरित्यर्थः ३६, व्याख्यातं सूत्रसंग्रहगाथायाः किंवाऽऽहारेंतीतिपदम्, अथ 'सव्वओ वावी'ति व्याख्यायते, तत्र सर्वतः प्रदेशः किं वापिशब्दात् अभीक्ष्णं नारका आहारयन्ति, तच्चैवं-नेरड्या णं भंते ! किं सव्वओ आहारैति सव्वओ परिणार्मेति सव्वओ ऊससंति सव्वओ नीससंति वा अभिक्खणमाहारेंति, एवं पूर्ववत् सर्वत्र योज्यं, आहच्च आहारेंति ४१, हंता गोयमा ! नेरइया सव्वओ आहारेंति, 'सव्वओ'त्ति सर्वात्मप्रदेशैः, 'अभिक्खणं'ति अनवरतं पर्याप्तत्वे सति 'आहच्चे 'ति कदाचित्, न सर्वदा, अपर्याप्तकावस्थायामिति ३७, 'कइभागं'ति आहारतयोपात्तपुद्गलानां कतिभागं आहारयन्ति १, तच्चैवं - नेरइया० जे पोरगले आहारत्ताए गिण्हंति ते णं तेसिं पोग्गलाणं सेयालंसि कति भागमाहारेंति ? कइभागमासाएंति ?, गोयमा ! असंखेजड़भा ९ शतके १ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy