________________
मुत्पाट्य पर्षदि । वदन्ति वादिनः सर्वे निजग्रन्थानुसारतः ॥ ९५ ॥ यत्र प्राणवधो नास्ति यत्र सत्यमनिन्दितम् यत्रेन्द्रियजयः सम्यक् तत्र धम्र्मोऽस्ति केवलम् ॥ ९६ ॥ यतः
जत्थ य विसयविराओ कसायचाओ गुणेसु अणुराओ । किरिआसु अप्पमाओ सो धम्मो सिवसुहोवाओ ॥ १ ॥ अनिवृत्तिर्विषयाणामज्ञानं तत्त्वत्वर्त्मनः । भवदुःखतरोर्बीजं कषाया उत्कटास्तथा ॥ ९७ ॥ पञ्चाक्षविजयः पञ्चाश्रवाणां संवरोऽधिकम् । सम्यक् तत्त्वपरिज्ञानं बीजं निर्वृतिशर्मणः ॥ ९८ ॥ सर्वोपधा शुद्धतमं खबुद्ध्या ज्ञात्वेति धर्म सुगुरोः प्रसत्तेः । करोति यो निश्चयतः स मित्रानन्दोपमां संपदमादधाति ॥ ९९ ॥
॥ इति धर्माधर्मविचारसंग्रहे गच्छाधिराज श्रीसोमसुन्दरसूरीश्वर शिष्यवाचकवर श्री जिनमण्डनगणिविरचिते पञ्चमगुणवर्णनो नाम पष्ठः परिच्छेदः ॥ ६ ॥
अथ गुरुत्वलक्षणं षष्ठगुणखरूपमाह
सयलपुरिसत्थसाहणमहिमुन्नकारणो गुरू धम्मो । हेमं व तिहा सुद्धो जिणपूआसीलतवमाई ॥ १ ॥ इह - दानशीलतपोभावभेदैर्धर्मश्चतुर्विधः । एकैकोऽपि हि प्रत्येकं पुमर्थानां प्रसाधकः ॥ १ ॥
सुविहिते सत्यमर्थकामौ फलोत्तरौ । शीतोष्णकालौ सुखदो वर्षाकाले सुसंभृते ॥ २ ॥