________________
ध्वायन्त्यमी सुखिनि दुःखिनि चानुकम्पां पुण्यक्रिषेषु सुदितां कुमतावुपेक्षाम् । एवं प्रसादमुपयाति हि रागलोभद्वेषादिदोष कलुषोऽप्ययमन्तरात्मा ॥ १ ॥
इत्याजन्माश्रुतापूर्वोपदेशामृतपानतः । प्रशान्तानन्तमिथ्यात्वतापः प्राह गुरुं नृपः ॥ ७१ ॥ अनन्ताः प्राणिनो मुक्तिं यदि प्राप्ता नृलोकतः । रिक्तो भवेत्स पूर्णत्वान्मुक्तौ स्थानं च नास्ति तत् ॥ ७२ ॥ गुरुः स्याह महासत्त्वाज्ञातजैनगिरामयम् । आलापः शृणु दृष्टान्तमत्र श्रव्यं विपश्चिताम् ॥ ७३ ॥ तथाहि
आसंसारं सरिआसएहिं हीरंतरेणुनिवहेहिं । पुहवी न निट्ठिय चिब उदही वि थली न संजाओ ॥ १ ॥ आत्मनोऽमूर्तिमत्त्वेन मुक्तौ संकीर्णता नहि । अनन्तानन्तरूपत्वान्न रिक्तोऽयं भवेद्भवः ॥ २ ॥
जया होही पुच्छा जिणस्स पारंमि उत्तरं तइया । एगस्स निगोअस्स य अणंतभागो अ सिद्धिगओ ॥ ३ ॥ संसारमोक्षयोरेवं त्वया भाव्यं नृपोत्तम । ततो गतमहामोहविषोऽवग् नृपतिर्गुरुम् ॥ ७४ ॥ इयन्तं समयं यावद्धान्तोऽस्मि मोहमूढहृत् । परमार्थपरामर्शिधर्मतत्त्वत्वहिर्मुखः ॥ ७५ ॥ चिरं परिचयः पूज्यैस्तादृशैरपि मेऽफलः । | एतावन्ति दिनान्यासीद्धर्माख्यानं विनाकृतः ॥ ७६ ॥ प्रभो ! तदुपदेष्टव्यं सांप्रतं मुक्तिकारणम् । मुमुक्षोरोचिती भ्रंशो येन मे न भवेन्मनाग् ॥ ७७ ॥ तथा — अवयारियरमणीओ लोइयधम्मो इमो मए सामि ! । पडिवन्नो संपर पुण जिणधम्ममेव काहामि ॥ ७८ ॥ दुरुज्झियसन्नासो जिणधम्मो होह जह ममं सम्मं । कीरउ तह प्पसायं