________________
धर्मपरीक्षा
Art
द्वितीय परिच्छेद
॥७॥ सार्वमौमश्रियो मुक्त्वा पुनरागामिजन्मनि । विद्यापतिः पतिः पृथ्ख्या गमी शाशतसमनि ॥१॥
एवं विशेषतरधर्मविबोधसारं विद्यापतेः क्षितिपतेश्चरितं निशम्य ।
सम्यग्विबोधरुचिचारुचरित्ररूपं धर्म कुरुष्व यदि वोऽस्ति शिवाप्तिवाञ्छा ॥७२॥ इति श्रीधर्मपरीक्षाशाने श्रीसोमसुन्दरसूरिशिष्यश्रीजिनमण्डनगणिभिनिर्मिते सामान्यविशेषधर्म
निर्णयः प्रथमः परिच्छेदः ॥१॥
अथ विशेषधर्मगुणखरूपमाहगीतार्थस्स गुरोः पार्थे द्रव्यक्षेत्रादिवेदिनः । प्रायः सुवर्णवद्धर्मः सम्यग् शुद्धः परीक्षया ॥ १॥ यतःवरकणगं व परिक्खिम बहुलठ्ठगुणं कसाइचउसुद्धं । धम्मं सिवसुहकरणं गिन्हह दोगचदुहहरणं ॥१॥ वरकनकं जात्यसुवर्ण कुमारभूमावुत्पन्नं, अष्टगुणोपेतं कषादिचतुष्परीक्षाशुद्धं प्राचीनपीनसुकृतोदयादेव क्वचिदेव प्राप्यते । तच प्रासं स्थावरजङ्गमविषविघातकारिप्रभृतिगुणोपेततया महते सुखोदयाय भवति । एवं निबिडतरानन्तपुदलपरावर्तकालारूढमिथ्यात्वमोहविषविघातविधानादिगुणशाली लोकोत्तरापरनामा विशुद्धधर्मोऽपि प्रौढभाग्येनेवाप्यते । यतः
hur