________________
धर्मपरीक्षा
॥ १ ॥
तथा आत्मवत्परत्र कुशलवृत्तिचिन्तनं शक्तितस्त्यागतपसी च धर्माधिगमोपायाः । एते आयुर्धृतमिव सम्यग्धर्मस्य हेतुतया धर्मोऽभिधीयन्ते । यतः -
धम्मस्स कारणाइं जीवदयादाणपूअणाईणि । सुहभावजणणहेऊ उवयारेणं हवइ धम्मो ॥ १ ॥ सदनुष्ठानं सामान्येनैवं भणितम् । यथा
कुलाचारमग्री वृत्तिर्न्यायधर्माऽविरोधिनी । खामिद्रोहादिपापेभ्यो विरतिः सत्यशालिता ॥ १ ॥ यदौचित्येन निर्व्याजं खगृहागतगौरवम् । विशुद्धा धनवृत्तिश्च धर्मः सामान्यतो भवेत् ॥ २ ॥ यतः - सामन्नणं धम्मो लोगविरुद्धाइपावपरिहारो । जायइ परंपराए विसेसधम्मस्स खलु बीयं ॥ १ ॥ जाव य सम्मत्त जुयं न लहइ धम्मं निरासवसरूवं । सामन्नधम्मनिरओ नेअवो ताव एस जिओ ॥ २ ॥ तथा धर्मानुष्ठानं चतुष्प्रकारं भवति । यतः -
कष्टाधिका खल्पफलोपभोगा भूयः फला खल्पतरात्मकष्टा । पापैकरूपा सुकृतैकसारा ख्याता चतुर्धा सुकृतप्रवृत्तिः ॥१॥ अथवा न्यायसंपन्नविभवादिपञ्चत्रिंशद्गुणसंपन्नता सामान्यधर्मरूपा ज्ञेया । यतः—
बवहारसुद्धिपमुहा पणतीसगुणे गिहीण जे भणिआ । सामन्नधम्मरूवा हवंति ते सुद्धधम्मफला ॥ १ ॥ लोइअधम्मा सबै जीवदयावज्जिआ विविहरूवा । अन्नाणकटुकलिआ धम्माभासा मुणेअवा ॥ २ ॥ यतः -
प्रथम
परिच्छेदः
॥ १॥