________________
श्री धर्मपरीक्षा
कथानकम्
॥ ३० ॥
मूल्यं पलानि पंचाशत् स्वर्णस्यास्य महोजसः । यदि वोऽस्ति द्विजाः कार्य तदाऽयं गृह्यतां रयात् मिलित्वा माहनाः सर्वे वदन्ति स्म मिथस्तदा । गृह्यतामेष मार्जारः खनकप्रमथक्षमः एकत्र दिवसे वित्तं मूषकैर्यद्विनाश्यते । हीयते मूल्यमेतस्य सहस्रांशेऽपि तस्य नो अर्पयित्वा ततो मूल्यं शीघ्रमग्राहि स द्विजैः । कार्यः कालविलम्बो नो सारे वस्तुनि पण्डितैः यतः- लंचौचित्यादिदानेषु सद्ववस्तुनि सुभाषिते । धर्मे रोगरिपूच्छेदे कालक्षेपो न शस्यते
स
खेचरस्ततोऽवोचत्परीक्ष्य गृह्यतामयम् । अन्यथा वाडवाः कामं भविष्यन्ति दुरुत्तराः कर्णेनैकेन रहितमोतुं वीक्ष्याथ तेऽवदन् । अनश्यदस्य भोः कर्णः कथं क्षिप्रं निवेद्यताम् ततोऽवदत्खगेन्द्रस्तान् वयं पथि श्रमातुंराः । ओतुयुक्तास्त्रियामायां संस्थिता निर्जरालये तदाऽगत्य वृषैः कर्णो विडालस्यास्य भक्षितः । क्षुधाग्निपीडितांगस्य निद्रापरिगतस्य च बभाषिरे ततो विप्रा नितान्तहाससंकुलाः । भो ! भो ! विचार्यतां चित्ते विरोधो दृश्यते महान् यदीयगन्धमात्रेण द्विष योजनान्तरे । न भवन्ति वृषास्तस्य श्रवणं भक्ष्यते कथम् ? तान् जगाद नमोगोऽसौ सार्वाहि किजषट्पदः । किमेकदोषमात्रेण गता गुणाः परस्य तु तैरुक्तमस्य दोषेणैकेन सर्वे गता गुणाः । पयो विलीयते किं हि न कांजिकैकबिन्दुना खगेनोक्तं गुणाः सर्वे नास्य यान्त्येकदोषतः । किं व्रजति दिनेशस्य पादास्तिमिरमर्दिताः
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
॥ ६५ ॥
॥ ६६ ॥
॥ ६७ ॥
॥
६८ ॥
॥ ६९ ॥
।। ७० ।।
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
अष्टमः
परिच्छेदः
॥ ३० ॥