________________
श्री
सप्तमः परिच्छेदः
धर्मपरीक्षा कथानकम् ॥ २८॥
॥१०॥
ऊचुस्ततो द्विजन्मानो मा भैषीः प्रस्तुतां क्द । चर्विते चर्वणं कर्तुं न युज्यते महात्मनाम् मनोवेगस्ततोऽवोचत् यद्येवं द्विजपुङ्गवाः । तदाङ्गीक्रियतां वाक्य पूर्वापराश्रित मम इहास्ति केशवो देवो विष्टपत्रयविश्रुतः । सृष्टिस्थितिविनाशानां जगतः कारण परम् यस्यानुभावतो लोका लभन्ते पदमक्षयम् । व्योमेव व्यापको नित्योऽवदातो योऽध्ययोऽनिशम् गदाकंषुधनुश्चक्रैः भूषिता यस्य पाणयः । त्रिलोकीमंदिराधारस्तमा वैरिदवानला: लोकोपद्रवजनका हन्यते यैश्च दानवाः । दिवाकरकरैर्दुष्टा यथाज तिमिरोत्कराः यस्य देहे स्थिता पद्मा जनानंदविधायिनी । कामितार्थप्रदा हया ज्योत्स्नेव हिमरोचिषः कौस्तुभो विग्रहे यस्य भासते विशदपुतिः । पद्यया स्थापितो दीपं किमु वर्षे निजालये भवतां तत्र किं विप्राः प्रतीतिर्विद्यते न वा । सर्वदेवाभिधे दैवे गोविन्दे परमात्मनि क्लेशकृशानुपर्जन्यो जन्मांबोधिबहित्रिकः । यैर्नाङ्गीक्रियते जिष्णुः पशवस्ते नृविग्रहाः द्विजा यदीशो जिष्णुस्तदा किं नन्दगोकुले । त्रायमाणः स्थितस्तंपादं गोपीकृताङ्गक: कलापिनां कलापेन कलितो धूलिधूसरः । कुर्वाणो वल्लवैः सार्ध रासक्रीडां पदे पदे याचितः किंवलिः पृथ्वीं कृत्वावामनरूपताम् । विष्णुना दीनवचनैः दुःखसंदोहहारिणा जागरूकः कथं ते केशवो मकराकरे । निरस्तप्रतिघातं का शखं स्वीकुरुते कथम् ।
॥१२॥
॥१४॥ ॥१५॥
॥ १७॥ ॥१८॥
॥ २८॥