________________
प्रथमः
सम्यक्त्वकौमुदी
॥ अहम् ॥ ॥ पू. आ. श्री विजयमेघमूरिभ्यो नमः ॥
श्रीमन्जिनहर्षगणिविरचिता ॥ सम्यक्त्वकौमुदी॥
॥ प्रथमः प्रस्तावः ॥
XXXXXXXXXXXXXXXXXXXXXXXXXX
XXXXXXXXXXXXXXXXXXXXXXXXXXX
ॐ नमः शाश्वतानन्दविज्ञानोदयशालिने । श्रीयुगादिजिनेन्द्राय स्वामिने परमात्मने ॥१॥ श्रीवीरः सर्व विद्याद्धिा वैरिजयश्रियम् । त्रिजगजनरक्षायां जागत्येकोऽपि योऽद्भुतम् ॥ २॥ सर्वज्ञवृषभाः सन्तु शिवाय वृषभादयः । राजहंसी यते नित्यं शिवश्रीयत्पदाम्बुजे ॥३॥ जयन्तु गुरवस्तेऽङ्गिकरुणावरुणालया। कल्पवल्लीव यद्भक्तिर्व्यनक्ति निखिलाः श्रियः॥४॥ जिनो देवो गुरुः साधुधमस्तद्दर्शितस्तथा। रत्नत्रयमिदं जीयाजन्तुजातशिवावहम् ॥५॥ रत्नद्वीपोपमं प्राप्य नृभवं भववारिधौ । धर्मचिन्तामणियः सुधियाऽभीष्टसिद्धये ॥ ६॥ यतः