________________
सम्यक्त्वकौमुदी
सप्तमः प्रस्ताव
॥२०॥
XXXXXXX
XXXXXX*************
धर्मस्य लक्षणं राजन्नान्तरं श्रूयते त्वदः । वैराग्यं विषयेऽप्युच्चैर्व्यवसायः क्रियासु च ॥ २५ ॥ यतः
जत्थ य विसयविरागो कसायचाओ गुणेसु अणुराओ।
किरियासु अप्पमाओ सो धम्मो सिवसुहोवाओ॥१॥ दृष्टा धर्मस्य माहात्म्यं यः फलेन विशेषितम । न प्रशान्तमनाः सम्यग स तु कृत्रिमधर्मवित ॥२६॥ प्रशान्तं मानसं यस्य सर्वाङ्गिषु कृपाऽद्भुता । राजन् ! धर्मस्य सर्वस्वं तेन ज्ञातं यथास्थितम् ॥ २७ ॥ यतः
धर्मे मतिर्भवति किंबहुना श्रुतेन जोवे दया भवति किं बहुभिः प्रदानः।
शान्तं मनो भवति किं बहुभिस्तपोभिर्लोभक्षयो भवति किं क्रतुभिः सहस्रैः॥१॥ तापच्छेदादिभिः शुद्धं यथा हेम निगृह्यते । तथा परीक्ष्य सद्युक्त्या धर्मतत्वं बुधः श्रयेत् ॥ २८ ॥ यतःतापच्छेदकः शुद्धं सुवर्णमिव यद्भवेत् । युक्तिसिद्धान्तसिद्धत्वात्तत्तत्त्वमभिधीयते ॥१॥ मनसा प्रतिपन्नोऽस्ति मार्गो जेनेश्वरो मया । एतत्सम्यक्त्वमाहात्म्यरम्य दृष्टान्तसंश्रुतेः ।। २६ ॥ परमेतन्मनोभावपरीक्षायै मया कृतम् । एतदुक्तकथापीठे खण्डशः खण्डनं विभो! ॥ ३०॥ कुतीर्थिकगणाक्षेपकुतर्कप्रलयानिलैः । कम्पते न मनाग यस्य सम्यक्त्वस्थिरतांघ्रिपः ॥ ३१ ॥ स एव महतां मान्यो भवानिव भवेद्विभो ! । कुरुते च जिनाधीशपदवीमदवीयसीम् ॥३२॥ श्यामिका वा विशुद्धिर्वा यथा वह्नौ परीक्ष्यते । हेम्नस्तथाङ्गिनो वोधिरत्नस्यापि महापदि ॥३३॥
| ॥२०॥