________________
सम्यक्त्वकौमुद
प्रथमः प्रस्ताव:
पूर्व निर्हेतुकं कर्तु रुपकारं शरीरिणः । उपकुर्वन् जनः पश्चात्कोटय'शेन समो न हि ॥ ५७ ॥ धन्यः प्रागुपकुर्वीत धन्यो मन्येत तत्कृतम् । धन्यः प्रत्युपकुर्वीत त्रयोऽमी पुरुषोत्तमाः ॥ ५ ॥ आचार्योऽप्यवदद्राजन् ! कृतज्ञैकशिरोमणे । । वयं विमुक्तसावद्याः किं कुर्मो राज्यसंपदा १ ॥५६॥ औदार्य नृपतेरयं गुरोनिस्सङ्गता तथा । सीमानं परमं प्राप्तं द्वयमेतत्तदाऽजनि ॥६॥ परं राजन् ! जिनेन्द्रस्य शासनस्य प्रभावकः । सम्यग्धर्म समासाद्य भव त्वं भरतेशवत् ॥ ६१॥ ततो धर्मस्य जिज्ञासां विज्ञाय नृपतेः पुरः । गुरुभिर्विदधे तत्र देशना मोहनाशिनी ॥ ६२ ॥ तथा हि-- अकामनिर्जरायोगाभ्रमतात्र भवेऽङ्गिना । निरस्य कर्मणां भूयः कोटाकोटिमिताः स्थितीः॥ ६३ ॥ धर्मः सम्यग् जिनेन्द्रोक्तः समस्तसुखसेवधिः । चिन्तामणिवि प्रायः प्राप्यते कमलाघवात् ॥ ६४ ।। युग्मम् ॥ धर्मकल्पद्रुमः सम्यग्भावादाराधितः सताम् । ऐहिकामुष्मिकश्रीणां प्रापणे प्रतिभूर्भवेत् ॥ ६५ ॥ तस्य श्रीधर्मरत्नस्य महिमा मीयते कथम् ? । भुक्तिमुक्ती प्रदत्ते यः प्राणिनामेकहेलया ॥ ६६ ॥ तस्य धर्मतरोमूलं कूलं संसारवारिधेः । प्रोक्तं सम्यक्त्वमर्हद्भिस्तत्त्वश्रद्धानलक्षणम् ॥ ६७ ॥ यतःधम्मस्स होइ मूलं सम्मत्तं सव्वदोसपरिमुक्कं तं पुण विसुद्धदेवाइसव्वसद्दहणपरिणामो॥१॥ विना सम्यक्त्वरत्नेन व्रतानि निखिलान्यपि । नश्यन्ति तत्क्षणादेव ऋते नाथाद्यथा चमूः ॥ ६८ ॥ तद्विमुक्तः क्रियायोगः प्रायः स्वल्पफलप्रदः। विनानुकूलवातेन कृषिकर्म यथा भवेत् ॥६६॥
RXXXXXXXXXXXXXXXXXXXXXXXX
॥६