SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्राणास्तेषामतिपातो - विनाशः प्राणातिपातस्तस्मात् क्रियेति समासः, तत्र कायिकी द्विभेदा, तद्यथा - अणुवरयाकाइया य दुप्पउत्त काइया य, तत्र नोपरतोऽनुपरतः, दुष्प्रयुक्तश्चासौ कायश्चेति तस्मिन् भवा तेन वा निर्वृत्ता दुष्प्रयुक्तकायिकी, इयं प्रमत्तसंयतस्यापि * क्रियापदम् भवति, प्रमादे सति कायदुष्टयोगनियमात् । तथा अधिकरणिक्यपि द्विमेदा, तद्यथा-संजोयणाधिकरणिया य णिव्वत्तणाधिकरणया पांगम् *य, तत्र संयोजन हलगरविषकूटयंत्रादीनां तदेव संसारहेतुत्वादधिकरणमिति -समासः पूर्ववत्, इयमप्यनन्तरसंयोजयितुर्भवतीति, क्रिया० २२ एवं अक्षरगमनिका स्वबुद्धधैव कार्या, तथा निवर्त्तनं असिशक्तिकुन्ततोमरादीनामिति, पंचविधस्य वा शरीरस्य, तथा प्राद्वेषिकी त्रिविधा, तद्यथा- 'जे णं अप्पणो वा परस्स वा तदुभयस्स वा असुभं मणं पहारेइत्ति' यः कश्चित् णमिति वाक्यालङ्कारे, आत्मनः* स्वस्य वा, परस्य वा अन्यस्य वा तदुभयस्य वा स्वपरोभयस्य अशुभं - अकुशलं मनः - अन्तःकरणं प्रधारयति - प्रकर्षेण धारयति * प्रधारयति करोतीत्यर्थः, अत्रैके व्याचक्षते - आत्मन उपरि तथा परस्य तदुभयस्येति, तथाचात्मन एवोपरि कस्मिश्चिदाचरिते सति विपाकदारुणे संवृत्ते अविवेकतः अकुशलं मनः प्रधारयति, एवं परस्य तदुभयस्य चेति भावनीयं, अथवा 'जेणं' ति येन विशेषेणा* त्मनः परस्य तदुभयस्य वा अकुशलं मनः प्रद्वेषहेतुत्वादिति, नैतदेवं, वीतरागादिचेष्टाया निरवधत्वादनुमत्यभावात्, सावद्यचेष्टातश्च * सा भवति, संसाराभिनन्दिनः आत्मा प्राद्वेषिक्येव वस्तुतो वेदितव्या इति, बह्नत्र वक्तव्यं तन्तु नोच्यते ग्रन्थविस्तरभयादिति । पारितानिकी त्रिविधा, तद्यथा- जेणं अप्पणो बेत्यादि, असातां दुःखरूपां वेदनामुदीरयति । आह एवं सति लोचाकरणतपोऽनुष्ठा*नाकरणप्रसंगः, नैतदेवं, विपाकहेतत्वेन चिकित्साकरणवल्लोच करणादेर सातत्वानुपपत्तेः अशक्यकरणप्रतिषेधाश्च । उक्तं च- "सो हु ** तवो कायव्वो, जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी, जेण य जोगा ण हायंति ॥ १ ॥” तथा प्राणातिपातक्रिया त्रिविधा तद्यथा-जेणमित्यादि, जीविताद् व्यपरोपयति-जीविताद् भ्रंशयतीत्यर्थः, अत एवाकारणे अकालमरणमपि निषिद्धमिति । शेषं सूत्रसिद्धं * * यावत् 'अस्थिणं भंते! जीवाण' मित्यादि, इह विषयविषयिभावश्चिन्त्यते, तत्र विषयः षट् कायाः, विषयिणी प्राणातिपातक्रिया । आहैवं वक्तव्यं अस्ति जीवेऽपि प्राणातिपातक्रिया ?, हंतः अस्ति, हंत संप्रेषण प्रत्यवधारणविवा (पा) देषु इह तु प्रत्यवधारणे, श्री प्रज्ञापनो 118011
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy