SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ * उद्देशः १ साम्प्रतं पंचदशमारभ्यते, अस्य चायममिसम्बन्धः, इहानन्तरपदे प्रधानबन्धहेतुत्वाद्विशेषतः कषायपरिणाम उक्तः, तदनन्तरमिन्द्रियवतामेव लेश्यादिसद्भावाद् विशेषतः इन्द्रियपरिणामनिरूपणायेदमभिधीयते, तत्रेन्द्रियपदस्य प्रथमोदेशके इन्द्रियाणां संस्था- * इन्द्रियपदे नाद्यर्थसंग्रहार्थमिदं गाथाद्वयं - 'संठाणं बाहल्लं पोहतं कतिपदेस अवगाढे । अप्पाबहु पुट्ट पविट्ठ विसय अणगार आहारे ॥ १ ॥ अद्दाय असीय मणी दुद्ध पाणा तेल्ल फाणिय वसा य । कंबल थूणा थिग्गले दीवोदहि लोगऽलोगे य ॥२॥ ' तत्र संस्थानाद्यर्धप्रश्नव्याकरणात्मो ग्रन्थप्रबन्धः - 'कति णं भंते! इंदिया' इत्यादि, तानि पुनरिन्द्रियाणि सत्यपीन्द्रियसामान्ये द्रव्येन्द्रियभावेन्द्रियवि- * *शेषतोऽधिगन्तव्यानि, यस्मादुक्तं संग्रहकारेण - "निर्वृत्युपकरणे द्रव्येन्द्रियं लब्ध्युपयोगौ भावेन्द्रिय” मिति (तत्त्वा. अ. २ सू. १७-१८) तत्र निर्वृत्तिर्नाम मनुष्यगतौ मनुष्यादिजातौ तिर्यगूगतौ च गवादिजाती २, अंगोपाङ्गनिर्वर्त्तितानीन्द्रियद्वाराणि कर्म्मविशेषसंस्कृताः * शरीरप्रदेशाः, उपकरणं नाम स्पर्शादिज्ञानावरणीयकम्र्म्मक्षयोपशमानयनसाधकतमः करणविशेषः यस्मादुपक्रियते तेनात्मनः क्षयोप* शमतया स्पर्शादीनामत उपकरणमित्युच्यते, लब्ध्युपयोगौ भावेन्द्रियं लब्धिरुपयोगमेव भावेन्द्रियं तत्र लब्धिर्नाम गतिजात्यादिनामकम्र्मोदयजनित उदयो लब्धिरुच्यते, यस्मादेकेन्द्रियजातिनामकम्र्म्मोदयादेकेन्द्रियादिर्भवति, तदावरणीयकर्म्मक्षयोपजनिता च, इह तु क्षयोपशमो लब्धिरुच्यते, सा च पंचविधा, तद्यथा स्पर्शनेन्द्रियलब्धिर्जिकेन्द्रियलब्धिः प्राणेन्द्रियलब्धिः चक्षुरिन्द्रियलब्धिः * श्रोत्रेन्द्रियलब्धिरिति, उपयोगस्तु स्पर्शनेन्द्रियादिष्वर्थेषु भवति, उपयोगः परिधानमायोगस्तद्भावपरिणाम इत्यर्थः । एषां च सत्यां निर्वृत्तावुपकरणोपयोगौ भवतः, सत्या च लब्धौ निर्वृत्युपकरणोपयोगा भवंति एवं विभागे प्रदर्शिते उपकरणेन्द्रियाश्रयाणि प्रश्न* व्याकरणानि, तद्यथा 'सोइदिपणं भंते! किं संठिए पण्णत्ते ?' इत्यादि, संस्थानमाकारो, बाहल्यं बहलता रुन्दतेत्यर्थः, पुडुत्तं पृथुता विस्तीर्णतेत्यर्थः, अत्राह-यदि अंगुलस्यासंख्येयभागो बाहल्यं स्पर्शनेन्द्रियस्य ततः कथमायुधाद्यभिघाते अन्तर्वेदनानुभव इति ? उच्यते, आत्मा शरीरेणैव वेदयति दुःखात्मिकां वेदनां नापीन्द्रियेण ज्वरशूलादिवेदनावत्, शीतादिस्पर्शनं तु सर्ववृत्तित्वच एव भवति, तत्र पानकादिपाने अंतः शीतस्पर्शग्रहणं कथं ? उच्यते, सर्वप्रदेशपर्यन्तवर्तित्वात् त्वचः अभ्यन्तरतोऽपि शुषिरस्योपरित्वग श्रीप्रज्ञापनो - * पांगम् १५न्द्रिय * ॥१७॥
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy