________________
प्रयोजनादि
श्रीप्रज्ञा हारि०
आचार्यपुरन्दरश्रीहरिभदसूरिसूत्रितप्रदेशविवरणयुतं
श्रीप्रज्ञापनोपाङ्गम् ।
ॐ नमः सिद्धेभ्यः॥ रागादिवध्यपटहः सुरलोकसेतुरानन्ददुंदुमिरसत्कृतिवंचितानाम् । संसारचारकपलायनफालघंटा, जैनं वचस्तदिह को न भजेत विद्वान् ? ॥१॥ तच्चाङ्गोपाङ्गप्रकीर्णकाद्यनेकमेदम् , इदं च सर्वमपि विधिनाऽऽसेव्यमानमध्येतृसंस्मर्तृप्रवक्तृणामपवर्गावहमितिकृत्वा तदेकदेशप्रज्ञापनाऽऽख्योपाङ्गप्रदेशानुयोगः प्रारभ्यत इति, इदं चोपाङ्गं यथाऽवस्थितजीवादिपदार्थशासनाच्छास्त्रं, तदस्य प्रारंभ एवालोचितकारिप्रवृत्त्यङ्गत्वात् फलादिविभागः प्रदर्यते, उक्तश्च-"प्रेक्षावतां प्रवृत्यर्थ, फलादित्रितयं स्फुटम् । मंगलं चैव शास्त्रादौ,वाच्यमिष्टार्थसिद्धये ॥१॥" तत्र प्रयोजनं तावत् परापरमेदमिनं द्विविध, पुनरेकैकं कर्तृश्रोत्रपे| क्षया द्विधैव,तत्र द्रव्यास्तिकनयाऽऽलोचनायामागमस्य नित्यत्वात् कर्तुरभाव एव, 'इत्येषा द्वादशाङ्गीन कदाचिबासीन् न कदाचित्र भवती त्यादिवचनात् , पर्यायनयालोचनायां चानित्यत्वात्तत्सद्भाव इति, तत्त्वालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्यार्थापेक्षया नित्यत्वेऽपि सूत्रापेक्षयानित्यत्वात् कथंचित्कर्तृसिद्धिरिति, तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः, अपरं सत्वानुग्रहः,तदर्थप्रतिपादयितुः किं प्रयोजनमिति चेन किंचित् , कृतकृत्यत्वात् ,प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासोऽनर्थक इति चेत्र,तख तीर्थकरनामगोत्रकर्मविपाकत्वात् , तथा चोक्तं-"तं च कहं वेतिजति अगिलाए धम्मदेसणादीही त्यादि । श्रोतृणां चपरं तदर्थाधिगमः,परं मुक्तिरेवेति, तथा
॥१॥