________________
॥ नमो नमः श्रीजिनशासनाय ॥
परमकारुणिकश्रीश्यामाचार्यवरेण्यविरंचितमागमसूत्रमिदं याकिनीमहत्तरासूनु-आचार्यवर्य श्रीहरिभद्रसूरिसूत्रितप्रदेशव्याख्यासहितं भविष्यति भव्यं भव्यजीवालम्बनमिति सानन्दं पुनः प्रकाश्यते ।
पुनःप्रकाशनपुण्यावसरेऽस्मिन् पूर्वप्रकाशक श्रीऋषभदेवकेसरीमलजी श्वेताम्बरसंस्थायाः कृतज्ञतया संस्मृतिं विदधामः । त्रिशताधिकशास्त्रपुनरुद्धारप्रेरकाणां विहरमाणजिन श्रीसीमन्धरस्वाम्युपासकानां वैराग्यदेशनादक्ष - आचार्यदेव - श्रीमद्वि* जयहेमचन्द्रसूरीश्वराणां पुण्यप्रेरणया समतासागरपंन्यासप्रवरश्रीपद्मविजयपुण्यस्मृतौ श्रीजिनशासन आराधना ट्रस्टग्रथितायां * प्राचीन श्रुतसमुद्धारपद्ममालायां पञ्चचत्वारिंशत्तमं पद्ममिदं सानन्दं समर्पयामः श्री श्रमणसङ्घायेति शम् ।
- श्रीजिनशासन आराधनाट्रस्ट
*
113 11