SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञाप- नोपाङ्गम् । प्रयोजनादि वस्य विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरः,महांश्चासौ वीरश्च महावीरस्तं । आह-ऋषमादीन् ब्युदस्य महा- वीरवंदनं किमर्थं १, उच्यते, वर्तमानतीर्थाधिपतित्वादासत्रोपकारित्वाच्चेति । आसनोपकारित्वं कथमिति चेत् , उच्यते, यतः 'सुयरयण'गाहा, द्विविधानि रत्नानि भवन्ति-द्रव्यरत्नानि भावरत्नानि च, तत्र द्रव्यरत्नानि वैडूर्यमरकतेन्द्रनीलादीनि, भावरत्नानि तु श्रुतव्रतादीनि, भावरबैरिहाधिकारः, श्रुतरत्नानां निधानं, निधानमिव निधानं तत्पभूताश्रयत्वात् , जिनवरेण-केवलिना, किंभूतेन-मध्यजननिवृत्तिकरण, तत्रानादिपारिणामिकभव्यभावयुक्तो मोक्षगमनयोग्यो भव्यजनो निवृत्ति:-निर्वाणं भव्यजनस्य सम्यग्दर्शनादिनिवृत्तिमार्गकरणशीलो भव्यजननिवृत्तिकरः, कारणे कार्योपचारात , अथवा लोकानुस्मरणादिना भन्यजननिवृत्तिकरस्तेन, आह-वीतरागद्वेषमोहत्वात् किमित्यभव्यजननिवृत्तिं न करोति ?, उच्यते, अभव्यानामेतत्स्वभावाद्, उक्तं च वादिमुख्येन-"सधर्मबीजवपनानघकौशलस्य, यल्लोकबांधव! तवापि खिलान्यभूवन् । तन्नाद्भूतं खगकुलेप्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः॥१॥"'उपदर्शिते ति उप-सामीप्येन दर्शिता उपदर्शिता,उपदिष्टेत्यर्थः । प्रज्ञापनं प्रज्ञापना-प्ररूपणेति भावना, प्रज्ञाप्यन्तेऽनया जीवादयो भावा इति वा प्रज्ञापना, सर्वभावानामिति सर्वतत्त्वानां-जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाणां, तथा चास्यां षट्त्रिंशत्पदानि, तत्र प्रज्ञापनाबहुवक्तव्यताविशेषाचरमपरिणामपदेषु जीवाजीवानां प्रज्ञापना, तथा प्रयोगक्रियापदयोस्त्वाश्रवस्य, कायवाअनाकर्मयोगस्य आश्रववचनात् , तथा 'इंद्रियकषायाव्रतक्रिया' वचनात् , तथा कर्मप्रकृतिपदे बंधस्य, तथा समुद्घातपदे केवलिसमुद्घातप्ररूपणायां संवरनिर्जरामोक्षाणां त्रयाणामपि, शेषपदेषु तु स्थानादिषु कचित्कखचिदिति । अथवा 'सर्वभावाना मिति द्रव्यक्षेत्रकालभावानामिति, एतावच्च प्रज्ञापनीयं, नान्यदस्तीत्यर्थः। तत्र प्रज्ञापनापदे ॥४॥ 李李李
SR No.600294
Book TitlePragnapana Sutra Part 01
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages106
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy