________________
नों तत्मत् ॥ अथ विवेकचूड़ामणिर्लिख्यते॥ सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । गोविन्द परमानन्दं सगुरुं प्रणतोस्मत्रहम् ॥ १॥ जन्तनां नरजन्मदुर्लभमतः पुस्त्वं ततोविप्रता तस्माद्वैदिकधर्म र मार्गपरता विद्वत्वमस्मात् परम्। श्रात्मानात्मविवेचनं खनुभवोब्रह्मात्मनासंस्थिति र्मुनि!शतजन्मको टिमुक्कतैः पुण्वैविना लस्यते ॥२॥ दुर्लभं वयमेवैतत् देवानुग्रहहेतुकम्। मनुष्यत्वं मुमुक्षुत्वं महापुरुष संश्रयः ॥ ३ ॥ लब्ध्वाकथञ्चिन्नरजन्मदुर्लभं तत्रापि पुस्त्वं श्रुतिपारदर्शनम् । यस्त्वात्ममुक्तौ न यतेत . मढ़धीः सयात्महा खं विनिहन्त्य सद्ग्रहात् ॥४॥ इतः कोन्वस्तिमूढ़ात्मा यस्तु खार्थे प्रमाद्यति । दुर्लभं है मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥५॥ वदन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवताः । प्रात्मैक्यबोधेन विनापि मुक्ति नसिद्ध्यति ब्रह्मशतान्तरेपि॥६॥ अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि थुतिः । ब्रवीति कर्मणोमुक्तेरहेतुत्वं स्फुटं यतः ॥ ७॥ अतोविमुक्त्यै प्रयतेत विद्वान् संन्यस्तवाद्यार्थसुख