SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 4 समयनिरूपणं श्रीअनुमा पुढवादिपमाणा आणिज्जति ते पमाणगुलविक्खंभेणं आणेतव्वा, ण सूइअंगुलेणं, शेषं सुगम, यावत् तदेतत्क्षेत्रप्रमाणमिति, नवरं काण्डानि हारि.वृत्तौ है। रत्नकाण्डादीनि भवनप्रस्तटान्तरे टंका:-छिन्नटकानि रत्नकूटादयः कूटाः शैलाः मुंडपर्वताः शिखरवन्तः शिखरिणः प्राग्भाग-ईषदवनता इति । ॥८२॥ 'से किं तं कालप्पमाणं' इति (१३४-१७५) कालप्रमाणं द्विविधं प्रज्ञप्तं , तद्यथा-प्रदेशानिष्पन्न विभागनिष्पन्नं च, तत्र प्रदेशनिष्पन्नं | एकसमयस्थित्यादि यावदसंख्येयसमयस्थितिः, समयानां कालप्रदेशत्वादसंख्येयसमयस्थितेश्वोर्ध्वमसंभवात् , विभागनिष्पन्नं तु समयादि, | तथा चाह- समयावलिय गाहा (१०३-१७५) कालविभागाः खल्विमाः, समयादित्वाच्चैतेषामादौ समयनिरुपणा क्रियते, तथा चाह-'से | किं तं समय' (१३७-१७५) प्राकृतशल्याऽभिधेयवल्लिंगवचनानि भवन्तीति न्यायादथ कोऽयं समय इति पृष्टः सन्नाह-समयस्य प्ररूपणां ४ करिष्याम इति, तद्यथा नाम तुम्नदारकः स्यात् सूचिक इत्यर्थः तरुणः प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति किं विशेषणेन ?, | न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावस्तस्य चासन्नमृत्युत्वादेव विशिष्टसामानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारंभ इति, अन्ये तु वर्णादिगुणोपचितो भिन्नवयस्तरुण इति व्याचक्षते, बलं-सामर्थ्य तदस्यास्तीति बलवान्, युग:-सुषमदुष्षमादिकाल: & सोऽस्य भावेन न कालदोषतयाज्स्यास्तीति युगवान् , कालोपद्रवोऽपि सामर्थ्यविनहेतुरिति, जुवाणं युवा वयाप्राप्तः, दारकाभिधानेऽपि तस्यानेकधा भेदाद्विशिष्टवयोऽवस्थापरिप्रहार्थमिदमदुष्ट, 'अस्पातंक:' आतङ्को-रोगः अत्राल्पशब्दोऽभाववचन:, स्थिरामहस्त: लेखकवत् प्रकृतपटपाटनोपयोगित्वाच विशेषणाभिधानमस्योपपद्यत एव दृढः पाणिपादपार्श्वपृष्ठान्तरोरुपरिणतः, सर्वांगावयवरुत्तमसंहनन इत्यर्थः, तलयमलयुगलपरिघनिभबाहुः परिष:-अर्गला तनिभबाहुस्तत्थ य तदाकारबाहुरिति भावार्थः, आगंतुकोपकरणजं सामर्थ्यमाह-चर्मेष्टकदुघनमुष्टिसमाइतनिचितकाय इति, ऊरस्यबलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इत्यर्थः, व्यायामवत्त्वं दर्शयति-लंघनप्लवनशीघ्रव्यायामसमर्थः, 545455445 SSSSSSSSSROO
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy