SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ समवायादयः नन्दीहारिभद्रीय प वृत्ती ॥१०२॥ ACCOCRACC4%A | दिष्वष्टसु स्थानेषु, एकत्र मेलिता द्वात्रिंशदिति । सर्वसम्व्यां प्रतिपादयबाह-'तिण्हं तेसहाण' मित्यादि, त्रयाणां त्रिषष्ट्याधिकानां प्रावादुकशतानां, विचित्रकैकनयमतावलम्बिनां प्रवादिशतानामित्यर्थः, व्यूहं-प्रतिक्षेपं कृत्वा स्वसमयः स्वसिद्धान्तः |स्थाप्यते, शेष किंचिद् व्याख्यातं किंचित् सुगममिति यावत् 'सेतं सूयगडे' त्ति कण्ठ्यम् ॥ 'सेकिंत'मित्यादि ॥(४८-२३८)।। अथ किं तत् स्थान १, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं, तथा चाह| 'ठाणे ण' मित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते, व्यवस्थितस्वरूपप्रतिपादनायेति हृदयं, शेष प्रायो निगदसिद्धमेव, नवरं 'टंकत्ति छिन्नतडं टङ्क 'कूड'ति पञ्चतोवरिं, जहा वेयड्डस्सोवरिं नव सिद्धाययणादिया कूडा, 'सेल ति हिमवंतादिया सेला, 'सिहरिणी त्ति सिहरेण सिहरिणोत्ति, ते य वेयड्राइया 'पन्भार'त्ति जं कूडं उवरिं अंबखज्जुयं तं पम्भारं, वा पव्वयस्स | उवरिभागे हत्थिकुंभागिती कुडुहं णिग्गय तं पब्भारं भन्नइ 'कुंड'त्ति गंगादीणि कुंडानि 'गुहति तिमिसादिया गुहा 'आगरा' रुप्पसुवन्नरयणादिउप्पत्तिट्ठाणा आगरा 'दह'त्ति पोंडरीयादीया दहाणदीउत्ति गंगासिंधुमादीओ, शेष क्षुण्णार्थ यावनिगमनमिति । 'से किं तमित्यादि ॥(४९-२२९।। अथ कोऽयं समवायः?, सम् अब अयः समवायः,सम्यगधिकपरिच्छेद इत्यर्थः, तद्धे8 तुकश्च ग्रन्थोऽपि समवायः,तथा चाह-समवायेन समवाये वा जीवाः समाश्रीयन्ते, अविपरीतस्वरूपगुणभूषिता बुध्ध्या अंगीक्रियन्त इत्यर्थः, अथवा जीवाः समस्यन्ते- कुप्ररूपणाभ्यः सम्यकप्ररूपणायां क्षिप्यन्ते, शेष निगदसिद्धमानिगमनम् । नवरं 'एगादियाणमित्यादि, अत्रकायेकोत्तरं स्थानशतं भवति, यथा 'एगे आया' इत्यादि, शेष सूत्रसिद्धं यावभिगमनमिति । FAGANSARSASARARENA
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy