SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगं नन्दा- ज्ञातृभ्यः प्रधानतर इत्यर्थः, एवं चरणकरणपरूवणया आघविज्जतीत्यादि, निगमनवाक्यं भावितार्थमेव ॥ हारिभद्रीय से किं तं सूयगडे ॥४७-२१२)। 'सूच सूचायां सूचनात सूत्रं सूत्रेण कृतं सूत्रकृतं, तत्र लोक्यत अनेन वाऽस्मिन् वा वृत्तौ | लोकः सूच्यत इत्यादि निगदसिद्धं यावत् 'आसीतस्स किरियावादिसतस्स' अशीत्यधिकस्य क्रियावादिशतस्य, व्यूह IA ॥१०॥ ४ कृत्वा स्वसमयः स्थाप्यत इति योगः, एवं शेपपदेष्यपि क्रिया योजनीयेति, तत्र न कर्तारं बिना क्रियासम्भव इति तामात्मसमवा & यिनीं वदन्ति तच्छीलाच येते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणाः अमुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, ली IDIजवाजीवाश्रववन्धसंवरनिजेरापुण्यपापमोक्षाख्यान् नव पदाथान विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनाया, तयोरधो नित्यानित्यभेदो, तयोरप्यधःकालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चैवं विकल्पाः कर्त्तव्याः अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चाय-विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवामिलापेन द्वितीयो विकल्प ईश्वरकारणिनः, तृतीयो विकल्पः आत्मवादिनः 'पुरुष एवेदं सर्व' मित्यादि, नियतिवादिनश्चतुर्थविकल्पः, पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, एवमनित्यत्वेनापि दशैव, एते विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानाम् , अतो विंशतिनवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । 'चउरासीते अकिरियावादीणं' चतुरशीतेरक्रियावादिनां, क्रिया पूर्ववत्, न हि कस्यचिदव्यवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भावे चावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः, तथा चाहुरेके-"क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया।। भूतियेषां क्रिया सैव, कारकं सैव चोच्यत ॥१॥" इत्यादि, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिद्रष्ट ॐ4-5 ॥१०॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy