________________
नन्दीहारिभद्रीय वृत्ती
मनःपर्यायाधिकारः
॥४५॥
उद्घटितज्ञा मध्यमबुद्धयः प्रपञ्चधियश्चेत्यलं विस्तरेण, स्थितमेतत्-प्राप्तर्षिअप्रमत्तसंयतानामुत्पद्यते, एतच्चोत्पद्यमानं द्विधोत्पद्यते, | तद्यथा-ऋजुमतिश्च विपुलमतिश्च, मननं मतिः, संवेदनमित्यर्थः, ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः, घटोऽनेन चिन्तितः इत्यध्यवसायनिबन्धनमनोद्रव्यप्रतिपत्तिरित्यर्थः, एवं विपुला-विशेषग्राहिणी मतिर्विपुलमतिः घटोऽनेन चिन्तितः, स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूतमनोद्रव्यविज्ञप्तिरिति भावार्थः, अस्या व्युत्पत्तौ स्वतन्त्रं ज्ञानमेव गृह्यत इति, अथवा ऋज्वी-सामान्यग्राहिणी मतिरस्य सोऽयं ऋजुमतिस्तद्वानेव गृह्यते, एवं विपुला-विशेषग्राहिणी मतिरस्येति विपुलमतिस्तद्वानेव, | भावार्थः प्राग्वद् , उत्तरत्र वा वक्ष्यामः ।
"तं समासतो" इत्यादि ( १८-१०७) तत् समासतश्चतुर्विधं प्रज्ञप्तं. तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः, तत्र द्रव्यतः णमिति पूर्ववत् ऋजुमतिः अनन्तान्-अपरिमितान् अनन्तपरमाण्वात्मकानित्यर्थः, स्कन्धान विशिष्टैकपरिणामपरिणतान् सज्ञिभिः पञ्चेन्द्रियैः पर्याप्तकैरर्द्धतृतीयद्वीपसमुद्रान्तर्वतिभिर्मनस्त्वेन परिणामितानित्यर्थः, जानीत इति मनःपर्यायज्ञानावरणक्षयोपशमस्य पटुत्वात् साक्षात्कारेण विशेषभूयिष्ठपरिच्छेदाज्जानीत इत्युच्यते, तदालोचितं पुनरर्थ घटादिलक्षणमध्यक्षतो न जानाति, किन्तु तत्परिणामान्यथाऽनुपपत्त्याऽनुमानतः पश्यतीत्युच्यते, उक्तं च भाष्यकारेण-"जाणति बज्झेऽणुमाणाओ" ति, इत्थं चैतदङ्गीकर्तव्यं, यतो मूर्तद्रव्यालम्बनमेवेदं, मंतारस्त्वमूर्तमपि धर्मास्तिकायादिकं मन्येरन् , नच तदनेन साक्षात्कर्तुं शक्यते, तथा चतुर्विधं च चक्षुर्दर्शनादि दर्शनमुक्तम् , अतो भिन्नालम्बनमेवेदमवसेयं, तत्र च दर्शनसम्भवात् पश्यतीत्यपि न दुष्टं, एकप्रमात्रपेक्षया तदनन्तरभावित्वाच्चोपन्यस्तमिति, ओघतो वैकविधक्षयोपशमलब्धौ विविधोपयोगसम्भवाद्विशेषसामान्यार्थापेक्षया जानाति पश्यति
ॐॐॐASARAS
४५॥