SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ गमनम् केनापि तनिषिद्धं, प्रत्युत मूलानुयोगरूपायां वसुदेव हिण्ड्यां बहुशः पूजाप्रदीपारात्रिकादिविधानं प्रतिपादितं । नागमोभगवतां श्रीमदर्हतामभिषेकस्तु जन्ममहे रात्रावेव भवति । ननु च श्रीमति महानिशीथे श्रावकाणामभिग्रहे II रात्रिचैत्यद्वारककृति IN प्रतिपादितमेवं-'तत्थ तुमे पुव्वण्हे पाणंपिन चेव ताव पायव्यं । नो जाव चेडयाई साहवि अवंदिआ विहिणा॥ सन्दोहे मज्झण्हे पुणरवि वंदिऊण निअमेण कप्पए भुत्तुं। अवरण्हे पुणरवि वंदिऊण निअमेण सुअणंति ॥, एष पाठः स्पष्टतया ज्ञापयति यदुत -- शयनकालो जायेत श्रावकाणां यावत्तावत्कालं जिनचैत्यानामुद्धाटत्वं श्रावकश्राविकाणां जिनवन्दनादि चानिवार्यमेव । आरेकतेत्र खरतरसन्तानीयो यदुत-'अजाण सावियाण अकालचारित्तदोसभावाओ । ओसरणंमि न गमणं दिवसतिजामे णिसि कहं ता?॥१॥ इतिशास्त्रवचनात् स्पष्ट एव श्राविकाणां जिनचैत्यगमननिषेध इति चेद् । नैषा गाथा पूर्वाचार्यग्रन्थीया, किन्तु खाद्यरेव स्वमतततये तता। किञ्च-भगवतां श्रीमतामहतां प्रथमचरमप्रहरयोर्देशनाप्रवृत्तिरागमप्रसिद्धाप्यनेन साध्वीश्राविकारूपद्विविधसङ्घगमनेनावरुध्यते । किश्च - स्वविमानेन सूर्यचन्द्रमसोः कौशाम्ब्यां श्रीमतो भगवतो महावीरस्य वन्दनाथं यदाऽऽगमनं जातं तदा नक्तकाले मृगावतीचन्दनवालयोरागमनादिजातो वृत्तान्तोऽप्यपलप्यते अनया गाथया। भगवन्तोऽभयदेवसूरयोऽप्याहुः पञ्चाशकसत्तौ- अभिग्रहः-चैत्यवन्दमकृत्वा मया | न भोक्तव्यं न वा स्वप्तव्य'मिति । सिद्धमनेनापि रात्रिशयनकालं चैत्यानां वन्दनं श्रावकश्राविकावर्गस्य, न च चैत्यप्रवेशेन विना भावि तदिति । 'सूरत्थमणे तित्थयरो धम्मं कहेउमुडिओ थेरी गय'त्ति श्रीआवश्यकादिपाठोऽपि श्रीमदर्हतां चतुर्थप्रहरे द्वादशानां पर्षदामने धर्मदेशना, तत्र ध्यागमश्चेति स्पष्ट ध्वनयति । किश्च-न चैषा गाथा खरतरसन्तानीयग्रन्थेभ्योऽन्यत्र क्वापि ग्रन्थे, न च तद्भागो भावार्थो वोपलभ्यतेऽस्याः। खर ॥९ ॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy