SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगमो द्धारककृति सन्दोहे || 06 || ॥ IAS यथा स्कन्ध-पत्रशाखा सुमानि च ॥ २० ॥ साधनानामानुकूल्ये, न वृक्षः स्वाङ्गवर्जितः । तथात्र दर्शनस्यामी, प्राप्यन्ते साधनाश्रयात् ॥ २१ ॥ नियमात्तत्र श्रद्धान-चतुष्कं दर्शने भवेत् । लिङ्गत्रयं त्रिकं शुद्धे-र्लक्षणानां च पञ्चकम् ||२२|| स्थानानां भावनानां च षट्कं शेषाः प्रसङ्गतः । दशधा विनयः पञ्च - दोषत्यागः प्रभावकाः ||२३|| अष्टाध्या भूषणानि, पञ्च- सेव्यानि शुद्धये । आकारा यतनाः षट् षटू, स्युरापत्तिगतस्य च ॥२४॥ क्षायिके दर्शने क्षायो - पशमिकेऽपि तत्त्वतः । व्यवहारनिश्चयाभ्यां स्युर्लब्धेऽमी गुणाकराः ।। २५ ।। यथा साधोर्यथायोग्यमेते साधनसम्भवे । तथा साधनसामग्र्या, अभावेऽणुव्रतेशिनाम् ||२६|| केचिदत्रा भेदभाजः, केचिचितरथा पुनः । अङ्गाङ्गिनां मते जैने, भेदाभेदौ न बाधकौ ॥ २७ ॥ व्रतेषु भावनाः पञ्च यथान व्रतभेदकाः । तथा विज्ञेयमत्रापि भेदबाहुल्यमात्मना ||२८|| स्कन्धेन शाखया पत्रैः, सुभैः शाख्युपलक्ष्यते । न च भिन्नानि तान्येभ्यस्तद्वदत्रापि भाव्यताम् || २९ ॥ इत्येवं भववार्धिपारगमने सामर्थ्यभाग् दर्शनं, शास्त्रोक्त्यानुगुणं भवी हितपदप्राप्त्यै सदानन्ददं । भेदैः साधुरसोन्मितैरनुगतं सद्दृष्टिनां श्रेयस, आनन्दोदधिना व्यचार्यमृतवार्थावुत्सुकेनात्मना ||३०|| इति सम्यक्त्वभेदाः ॥ सम्यक्त्व ज्ञातानि (२७) पल्यादीनि प्रसिद्धानि, प्रोच्यन्ते सूरिसत्तमैः । आद्यसम्यक्त्वलाभे तु ज्ञातानि श्रुतसन्तौ ॥ १ ॥ सामायिकानि चत्वारि, निर्युक्तौ विवृतानि तु । आद्यं सम्यक्त्वमुक्तं तज्ज्ञातानां तत्र योजनम् ॥२॥ तत्त्वतस्तानि सर्वाणि चतुर्ष्वपि मुनीश्वराः || सामायिकेषु युञ्जन्ति, निर्युक्तौ यदुदीरितम् ॥ ३ ॥ सामान्येनान्तिमे भाग, आप्तौ ज्ञातानि सन्ति च । सामायिकानां तद्युक्तं, ननो ( न तु ) सर्वत्र योजनम् ॥ ४ ॥ ZZO सम्यक्त्व ज्ञातानि ॥७८॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy