SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति सन्दोहे ॥ ६५ ॥ एकामेकादशाङ्गानि ततोऽर्थोऽत्र भवेत् पृथक् ॥७॥ चतुर्दश च पूर्वाणि, सर्वेऽपि गणधारिणः । चक्रश्चतुर्दशैतास्तु, श्रित्वा शासनसम्पदे ॥ ९ ॥ क्रियात्रे च सर्वत्र, निषद्याऽऽसनवाचिका । साधुदेहं जगुः सूत्र - कारा नैषद्यगं पुनः ॥ १० ॥ निषद्याद्योतिनीं चक्रे, पद्धतिमर्थसङ्ग्रहाम् । आनन्ददां सुसाधूनां, मोक्षमार्गैकचेतसाम् ॥११॥ इति निषद्याविचारः ॥ सम्यक्त्व षोडशिका (२४) नम्यां जिनेशो यदि तत्त्वबोधो निर्ग्रन्थ आध्यो यदि मोक्षवाच्छा । कृपा वितीर्या यदि कर्मभीतिस्तत्त्वत्रयं धार्यमिदं सुधीभिः || १ || शास्त्रेषु सम्यक्त्वमुदीरितं ज्ञैर्भूतार्थतत्त्वेषु रुचिर्निरीहा । जीवादिषु प्रोज्झितसर्वदोषा, निक्षेपमानैः सनयैः प्रबन्धात् ॥ २ ॥ तुर्ये छुपाङ्गे प्रथमे पदे दो, जगाद सल्लक्षणमाप्तवर्यः । तथोत्तराध्यायवचोऽपि मोक्ष - मार्गे स्थितं भव्यविलोकनीयम् ॥ ३ ॥ सत्यप्यमुष्मिन् वचने गताघे, श्रीयोगशास्त्रे प्रभुहेमसूरिः । जगाद देवे सुगुरौ सुधर्मे, श्रद्धानमुग्रं किमु सद्दशां तु १ ॥४॥ सत्यं त्वयावादि विनेयवर्य !, परं विरोधो नहि कोप्यमुध्योः । यतो भवेजीवमुखानि सम्यक्, मन्वान आर्हन्त्यमुखेषु मन्ता || ५ || विलोकयन्नाश्रवभारभुग्नं देवं गुरुं धर्ममुशेन्न तत्रम् । चेत्संवरे निर्जरणे च मग्नं, पश्येत्कथं नैव स मन्यतेऽर्हम् १ ॥ ६ ॥ श्रद्धा ततो जीवमुखेषु यस्य, जायेत तत्त्वेषु जिनोदितेषु । कथं स कुर्यात् भववार्धिसेतौ श्रद्धां न देवे सुगुरौ सुधर्मे ? ॥ ७ ॥ ज्ञाता न चिन्तामणिसद्गुणानां रमेत पाषाणचये कदापि । न षट्पदचतरसेन पीनो, निम्बं निलीयेत गतात्म भावः ॥ ८ ॥ अवेत्य जीवादिपदार्थसार्थ श्राद्धस्ततो मुञ्चति दुष्टदेवान् । गुरुंश्व धर्मान् भवदावली सम्यक्त्व. पोडशिका ॥ ६५ ॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy