________________
931
RI वेत्तारः, प्रज्ञप्तमित्यवादिषुः ॥७॥ अतथ्यानाममूलानामर्थानां प्रतिपादने । असत्यश्रम्भसंसूत्यै, प्रज्ञप्तेति वचो आगमो• KI धृतम् ॥ ८ ॥ अप्रज्ञप्ते स्वयं क्लुप्तेऽप्यर्थे लोकमतीतये। प्रज्ञप्तमित्यवादिषुस्ते, भवभ्रान्तेरभीलुकाः ॥९॥ INI
प्रज्ञप्तपदद्धारककृति
जैन मतं न कोप्यस्तीश्वरो विश्वविधायकः। न चैक एव सर्वज्ञस्तत्प्रज्ञप्तं न तत्परम् ॥ १० ॥ विश्वस्यानादि- द्वात्रिंशिका
तोऽनन्ता, अतीते ईश्वराः पुनः । अनागतेप्यनन्तास्ते, विश्वस्यानाशिता यतः ॥११॥ विश्वे जीवादयो सन्दोहे
नित्या, येा आगमनोदिताः। जीवाजीवाश्रवबन्धसंवरा निर्जराऽव्ययम् ॥१२॥ ज्ञानरूपोऽयमात्मा तत्क्षिप्त्वा कर्माणि संवृतेः। प्राप्य केवलमर्थांस्तान , सर्वज्ञो देशयेजनान् ॥१३ ॥ पारम्पर्येण तीर्थेशा, आगमाश्च परस्परं । हेतुकार्यत्वमाश्रित्यानादितो भुवि जज्ञिरे ॥ १४ ॥ यदा ते गणभृद्धर्यानाश्रित्योचुर्विभावने । 'पन्नत्तमिति तत्रैपोऽयों बुधैरवधार्यते ॥१५॥ ज्ञानं पञ्चविधं तत्र, प्रकृष्टं केवलं मतं । सैव प्रज्ञा तयेमेऽर्था, ज्ञाता युष्मान् ब्रवीम्यहम् ॥१६॥ अत एवोच्यते शास्त्रेऽखिलानर्थान् जिनो विदन् । प्रज्ञापनीयान् गणिनोर्थान , यतो वदति तच्छ्रतम् ॥१७॥ आत्मागमत्वसूचायै, जिनः प्रज्ञाप्तमिव्यवक् । अनन्ताः कालभेदेन, तथाप्येका प्ररूपणा ॥१८॥ यतो ज्ञानं समस्तार्थ, जीवाद्याः शाश्वताः पुनः। न कालजीवभेदेन, द्वादशाङ्गयां विभिन्नता ॥१९॥ स्वयम्बुद्धादिभिश्चात्र, प्राक् तीर्थे जिनभाषितं। उच्यते लब्धमित्येते, प्रज्ञप्तं प्राग जिनैर्जगुः ॥२०॥ जातिस्मृत्यादिका प्रज्ञा, तयाप्तमिति कथ्यते । तैस्ततोऽतीततीर्थशाख्यातमित्यवधार्यते ॥२१॥ जिनोक्तानखिलानर्थान , ज्ञात्वा ज्ञानचतुष्टयीं। दधानाः परमां शिष्यानूचुर्गणभृतस्त्विदम ॥२२॥ गणभृन्नामकर्मोत्थामर्हद्वाण्युद्भवां पुनः। प्रकृष्टामाप यां प्रज्ञां, तयाऽऽप्तं जिनसाधितम् ॥२३॥ अनन्तरागमार्थोऽयमागमो गणभृद्वजे । ततस्तत्सूचनायै तत् , प्रज्ञाऽऽसमिति कथ्यते ॥२४॥ छद्मस्था वा समे जीवा, ज्ञानमन्वहमाश्रिताः। आन्तर्मुहत्तिकं यस्मानोपयोगो लघुस्ततः ॥ २५ ॥ अहंन्नेवानुसमय, ज्ञानं दर्शनसंयुतं । दधाति सर्वदा प्राज्ञस्ततोऽर्हन्नेव नापरः ॥ २६ ॥